________________ जैनगीता / अतः समस्तकर्महानितो भवेद्गतार्थता, विमोक्षतत्त्वसम्भवस्य नव्यबन्धविच्युते.. . // 19 // समस्तकर्मनाशनान्मतं जिनेश्वरैः शिवं, परं न तत्स्वतत्त्वतो निजान् गुणान् सनातनम् / दधात्यनन्तमव्ययान् , स्वरूपतः शिवं नु त जीवरूपमेव तत्कृतिस्तु निर्जराश्रिता // 20 // यथा हि निर्जरा शिवस्य साधनं कृतौ स्थितं, तथैव बन्धनोद्धतिः परा शिवस्य साधिका / परं न बन्धनोद्धतिर्विनास्ति कर्मनिर्जरां, परम्परा यतोऽनयोस्ततो द्वयं हिं साधनम् // 21 // तपोऽघनिर्जराफलं द्विधा तपस्तु तत्पुनः , स्वरूपतोऽन्यतीर्थिकैः कृतं समं तु बाह्यतः / विचार्यतेऽनुबन्धिता न चात्र बाह्यताश्रिते ऽनवद्यतेतराश्रिता शरीरतापनाद् द्वयोः // 22 // बाह्येऽस्मिन्नुदिता मिदो मुनिवरैः षट् तत्र मर्यादया, ___ तीर्थानां, क्रियतेऽनशनादिविरमो वीरस्य सच्छासने / षण्मासी प्रमिता, न चेद्भवति तां कर्तुं सहो मानवः, स्यात्तपसः परिपारणेऽवमपरो भुङ्क्ते प्रकामं न वै // 23 // बह्वाशी न सहो भवेदवमता कत्तुं तदा सक्षिपेद्, वृत्ति, वर्जति तत्सहो न विकृतीस्तद्भावितश्चेन्नरः / कुर्यात् क्लेशभरं तनोर्मदहरं, चेद्भावितोऽसौ सुखैः, नात रौद्रसमञ्चितं न च भवेत्तन्वेन्द्रियाणां क्षतिः // 24 //