________________ जैनगीता। 53 विमोहमुख्यकर्मणां ततः प्रभृतिबन्धनं, . न कोटिकोटिसागरप्रमाणतोऽधिकं भवेत् / गते गुणेऽपि लङघनं न तस्य जातु जायते, रसोऽधिकस्तु पाततः समुद्भवेद्गणावृतेः // 14 / / यथा यथा गुणावृतेः क्षयोऽङ्गिवीर्यवृद्धिज स्तथा तथा गुणावलेः समुद्भवो निरर्गलः / परे परे गुणे यथा गुणावलेः समुद्भव स्तदा तदाऽघबन्धनं गुणप्रभावतः क्षयेत् // 15 / / कपायाणां नाशो यदि च शमनं स्थान (श्रेणी) प्रभवं, तदा बन्धः सर्वो विलयति भवाब्धिप्रजननः / परं बध्नात्येपोऽविरतयुजि यत्न उदितः, परं सा तं वेद्यं क्षिपति दुरितं प्राक् त्वतिघनम् // 16 // यद्याप्येषा शुभगुणजननी निर्जरा पाप्मनां स्या नैवाम्नाता शिवपदपरमे निर्जरा पुण्यभागे / / बन्धाभावो यदपि सुकुतेरात्मशुद्ध युद्भबोऽसौ, शुद्धं वस्त्रं स्वकगुणनिरतं नैव कौसुम्भवसनम् // 17 // समस्तकर्मनिर्जरा सदा जनुष्मतां भवे, भवेन्नवा विपाकभाग निर्जराविनाकृतः / . देशनः परं सकाऽवशेषकर्मणां स्थितेः, पुनश्च बन्धनं न तद् द्वयं शिवं गमे नरि (समस्त निर्जरे)।।१८।। उपात्तकर्मजारणं तु निर्जरास्वभावजं, नवीनकर्मबन्धने न जायते ततोऽन्तरम् / /