________________ जेनगीता। यतो जातो व्याधिः कुपथचरणादेरनुपमो, . निरोधस्तत्त्यागान्न च कुपथकृद् रोगरहितः / परं व्याधर्नाशो विकृतिहरणे ये पटुतरा स्तदा जीवात्तद्वद् भवति विहतिः कर्मविततेः // 3 // मोक्षं न यः शिवमयं मनसाऽऽस्तुमिच्छेद् , दुःखं क्षुदादिसहितं विविधं सहेत / सोऽधं क्षिणोति परमाश्रितमङ्गमार्ग स्तीवं करोत्यघमियं त्वपकामनाङ्का सूत्र यतोऽग्नितपनादिकमाचरन्तोऽ धोगामिनोऽपि कथिताः प्रविराद्धभावाः / गार्हस्थ्यलीनमनसोऽपि विरक्तिकामा, आराधकाः परभवे कथिता जिनेशैः मुक्त्यर्थता यदि भवेच्छिवधामसिद्धथै, कार्य भवेद्भविजन गुपातमुख्यम् / वादाश्च सन्ति सम आस्तिकताश्चिता ये, मुक्त्यर्थिनः ततः इमे शिवभाजनं स्युः // 6 // मुक्त्यर्थिनश्चरमवर्तगताः प्रसिद्धा, वादान्विता अपि परे चरमावृताः स्युः / नद्यो जिनेन्द्रकथितं मनुते हि मोक्षं, भव्यस्तदर्थनिपुणाश्च परत्र शुद्धाः अकामनिर्जरावतां व्यथाऽमिता फलं लघु, सकामनिर्जरे पुनर्महत्फलं व्यथाऽल्पिका /