________________ जैनगीता। वृद्धत्वेऽधिगतेऽङ्गपीडनमलं बाल्येऽनुभूताद्धते-: स्तद्वत्कर्मविपाकमेति विहिताऽबाधासमाप्तौ दृढम् // 29 // प्राक् संसारे भवमनुसरता दुष्कृतं बद्धमल्पं, पाकस्तस्यानणुरिह भवति प्राप्तकालोऽसुमत्सु / वीरे देवे मदवधविमति श्रोत्रपीडाकृतेर्यद् / बद्धं तीर्थङ्करभव उदितं. नात्रकं नैव पापे // 30 // . जैनः सम्यग् जिनपतिगदितं बन्धतत्त्वं विजानन् , नित्यं चेतोऽघरहितजनतापादपीठे, विदध्यात् / / साशङ्कानां भवति दुरितं निर्जरान्तं विवेकात् , सोऽमुत्र स्यादुपरि सुरवरे निश्चयाच्छुद्धलेश्यश्चुत्वा तस्मादधिगतनृभवः शाश्वताऽऽनन्दमेता (लाभः) // 31 // इति षोडशोऽध्यायः / / सप्तदशोऽध्यायः / (निर्जराधिकारः) जैनः स स्याद्धतिधनिकवरः सात्त्विकेषु प्रधानः , संधत्ते यो निखिलभवगतं कर्मणां प्राज्य (पूर्ण) राज्यम् / चेतो पत्ते निखिलकुवृजिनोद्घातहेतौ सुधर्मे, मन्ता यद्वद् वृजिनसुविलयः पाकतस्तद्वदेव, चीर्णात्तीवात्तपस इह कृतानिर्जरायाः पदं तत् // 1 // लग्नं जीवे पापमये प्रभावा-दाहारादेः सर्वभेदेषु भावात् / यावन्न स्यात्सर्वथैतस्य नाशो, मुक्तेराशा तावता नैव सिध्येत // 2 //