________________ 48 जैनगीता। एकशो विधाय पापमेत्यनन्तकावतो, महत्प्रदीर्घकालिकी स्थिति तनोति तत्तथा / ' दृढं विपच्यते यतोऽहसां चयो न तामृते, अनादिकास्तु तन्वते मुहुर्मुहुस्तकां लघुम् .. // 14 // बद्धमंह एत्यलं विपाकदानदक्षतां, स्थितेः क्षये परं द्विधाऽस्ति कर्मभोग्यमात्मनः / प्रदेशतो विपाकसश्च न क्षयः प्रदेशतो, यथौषधेन हन्यते विपाक आमयापिनाम् // 15 // अतः कृतस्य कर्मणः क्षयो न जातु जायते, परः शतैरपीह कल्पकालसङ्गतैरपि / प्रदेशमार्गमाश्रितं वचस्त्विदं बुधैर्मतं, गतस्पृहं तपस्तु तद्विपाकतोऽपि नाशयेत् // 16 // यथा रसोज्झिताणवः शटन्ति शीघ्रमाश्रयात , तथा विपाकशून्यतां गताः समेऽणवोंऽहसाम् / निकाचितानि कानिचिद् भवेयुरहसां पुन व्रजानि तानि नाशयन्ति ये स्थिता महावते // 17 // यदाऽघबन्धान बिभाय जन्तु-विपाककाले भयधारणात् किम् / किमातुरोऽपथ्यविधौ प्रसक्तो, वृद्धौ तु रोगस्य रवैररोगः ? // 18 // बिभेति चेदाश्रवबन्धकाले, पापात्तदा नैव तकद्विदध्यात् / स्वायत्तबन्धेन च जैनमार्गे, विबन्धके नास्ति फलोपभोगः // 19 // यथा कषाया विविधा जनाना, स्थितौ रसे तद्विविधाः प्रकाराः / कषायहीनाः स्थितिबन्धका नहि, रसस्तु तद्धानिभवोऽस्त्यसीमः॥२०॥