________________ ___ जैनगीता। - / षोडशोऽध्यायः / ( बन्धाधिकारः ) जैनः सदा भीतिधरोऽघबन्धात्, मुमुक्षतां निर्मचेतसा धरन् / प्रतीयमानोऽङ्कमुदारभावाद्, मुक्तेरबन्ध भविनां तु बन्धम् // 1 // आश्रुतं यदाश्रवैरदृष्टमात्मनाऽऽत्मसु, विकीर्णमेव चेत्तकन्न यात्यदो भवान्तरम् / क्षीरनीरवत्पुनर्भवेत् तकत्तु सङ्गतं, फलेत्तदा भवान्तरेषु विपाकसाधनानुगम् // 2 // परिश्रवा भवन्ति ते स्वरूपतोऽपि. संश्रवा श्चटन्नपैति यान् सितान् शुभात्मभावुकांशान् / / पतन्नपीह तान् प्रयात्यसो भवी न संशयः // 3 // धर्मसाधनोद्यता नराः सदा भयानकान् , पराहरन्त आश्रवांस्तथापि सम्प्रयान्ति तान् / देवसाधुधर्मभक्तिकारणात्तदा शुभान् , विधाय प्राक्तनं दुरितमुद्धरन्ति तत्क्षणे // 4 // प्रकृतेर्बन्धं योगाः कुर्युस्तनौ यथा धातवः , पूर्वैः सदृशास्तेषां देशास्ततो नहि सार्थकम् / बन्धनतत्त्वं यत्तद्धन्धो भवेदमुतोऽखिलः, स्थित्यास्तेषामनुभावाच्च क्रियाननुबन्धतः // 5 // योगकरणावधिं श्रयन्त्यमी, आश्रवाः सयोगितान्तमाश्रिताः / सम्परायिकी समाश्रिता नराः कषायितानुगास्तावदेष तु // 6 / / यदपि च योगा आत्मायत्ताः परं गृहिताणुषु, अपरसमुत्थाः सर्वेऽप्येते भवन्ति कषायकाः /