________________ जैनगीता। न जीवन स्युः प्रतिबद्धभावा, यथायुरेवाणनमङ्गिनां यत / क्षणो हि धर्मस्य परं दुरापो, मत्वेति रत्नत्रितयावधानाः // 23 / / भाव्यं समैः सदये रिपो च, स्त्रैणे तृणे चाऽश्मसुवर्णयोः पुनः / भवे च मोझे च विभाव्य मार्ग, संवेगवैराग्यपरं निजेप्सितम् // 24 // परे समस्ताः प्रमृता हि धर्मा, वदन्ति दौर्गत्यगमोदितानि / दुःखानि वैराग्यकराणि जैन-श्चतुर्गतीनां तु भयानि वेत्ति // 25 / / विभति सर्वोऽपि भवाश्रितोऽङ्गी, मृतेन सोऽपैति भयाद् बिभीतः / सम्यक्त्ववास्तूजननाद् यतस्त-निवार्यमेतञ्च विना न मृत्युः / / 26 / / ध्येयं सदैतत्परिसंवृतानां, कदा ह्यसङ्गो दध (वस) दल्पवासः / मलाक्तदेहो भ्रमरोपमानां, चर्चा कदा सद्गरुसंश्रितं श्रये // 27 // मदा श्रिय गुरोः कुले. निवास आईते मते, गणाधिपास्तथाविधा अपि श्रुतं पदं जगुः / अभिन्न एव तबहिर्गतस्तु मोहतस्कर स्तदाश्रयाश्च तद्विधास्ततो गुरोः कुलं श्रयेत् // 28 / / यद्यपि देहो गुणकुलयुक्तो, मोक्षपदावह उक्तमुनीनाम् / तदपि निरावाधं पदमेतुं, व्युत्सृजतीह समं मुनिरन्ते // 29 / / आजीविताद्धर्मपरो हि जैनो, रत्नत्रयाराधनया कृतार्थः / तत्त्वत्रयीं मानसकोशदेशे, सदा धत् प्राप्स्यति शाश्वतं पदम् / (मग्नः सदानन्दपरे समयः) // 30 / / इति पञ्चदशोऽध्यायः /