________________ जैनगीता। दुःखित्वान्नरकाश्रिताः परकृतं तन्त्रं वहन्तः पुनस्तियश्चोऽमरतां गता अपि पुनः सामर्थ्ययुक्ताः, समे / स्वीकुर्वन्ति न सर्वसंवरविधि वाचः क्षणे साधनात्, तन्नैकां नरतां विना क्वचिदपि स्यात् संवरः सत्तमः // 15 // धर्माचारधरः सदाऽनुमनुते पाथेयमामुष्मिकं, देवाचार्यसुकृत्यपूजनविधौ शुद्धा भवेद् या कृतिः / . तीर्थानां परिषेवणा, वृषवतां भतथा समाराधना याऽन्ते स्याच्च समाधिना मृतिरिति प्रध्वंसि शेषं पुनः // 16 // जीवेषु क्लेशयत्सु व्रजति करुणया रक्षणे सत्प्रयत्नं, यस्माद् दुःखान्वितेषु प्रयतत उदिते ह्याभावोऽवनाय / / यत् तच्चिद्रं प्रसत्तेरधिकृतसुविधेर्भावसम्यक्त्वजाते रौँ तल्लक्षणं चेतरमिषचयतो जैन वंशे विशेषात् // 17 सुसंवरास्ते यदि मावनाभि-यंदात्मना स्वाभिरनुश्रिताः स्युः। महाव्रतेषूद्यतधारणायां, यथा तथाऽणुव्रतधारणायाम् // 18 // सदा प्रतिज्ञा सुकरा सतां स्या-न पालना सद्बषमाश्रितेष्वपि / योगास्ततो धर्मपरैरमूभिः, सद्भावनाभिः सततं प्रवाः / / 19 / योऽणुव्रतानां यमिनां समक्ष-मागू विधत्ते भयतोऽघसन्ततेः / दिने दिनेऽसौ मुनिताधिगत्ये, प्रतिव्रतं संस्कुरुते ह्यमूभिः // 20 // महाव्रते स्युः सततं समुद्यता, ये तेऽप्यमूभिर्न निजं वसीरन् / आसूर्यकाद्याभिरुपासयेयु-र्द्विधा विहारार्हसुभावनाभिः // 21 // सुसंवृता बिभ्यति नैव मृत्यो-यतो यतानां सुगतिः पदाम्बुजे / विमोहतः शोकमुपैति सक्तः, क्षणः परः सोऽनघजीवितानाम् / / 22 /