________________ जैनगीता। श्रुत्वा कर्णरसायनं वच इदं यः श्रद्दधीताश्रवान् , सन्ध्याद् दुष्कृतवारिधेः समगुणान् मत्वा जिनेन्द्रं वचः। स स्यादात्मनि गुप्त उप्तमतिको धर्मादृतोऽनेकशः , म्याच्चासौ वर जैन एव नितरां गच्छेदनाबाधताम् // 21 // एतजैनम्य शुद्धं जिनपतिगदितं सर्वशास्त्रेकसारं, हेयाः संसारवासे प्रतिपदमटनादिष्ववस्थास्वपीह / पापानामाश्रवा ये हृदयत्तनुवचोभिर्वधायेषु ये स्युः, कोधायेपु प्रयुक्तैर्न भवति परथा भावजैनत्वमुच्चैः // 22 // इति चतुर्दशोऽध्यायः / / पञ्चदशोऽध्यायः / ( संवराधिकारः) मन्याज्जैनः शुचितरमुदितं संवरं तत्त्वभूतं. 'पाएं यम्माद्विरलिकरणादन्तरेणैति नित्यम् / मिथ्याल्वाङ्का मननविपयं नैव तां सन्दधीरन् , यस्मात्तेषां न भवति दुरितं पापकार्ये प्रवृत्तौ // 1 // जगति जैनवृषादपरे वृषाः, करणमात्रजमाहुरचं परम् / अविरतो यदि पापमपाम्यते, कथमनादिभवे विकलेन्द्रियाः ? // 2 // सुप्तो यथाऽभिमरको विगतक्रियोऽपि, छिद्र प्रवीक्ष्य वितनोति परस्य घातम् / जीवास्तथैव रहिताः क्रिययाविरत्याः . पापप्रचारमुदितेऽवसरेऽपशङ्काः // 3 //