________________ जैनगीता। // 15 // ततोऽवधानमाप्यतां सदाऽऽभवावरोधने, न तद्भवेद्विनाऽऽश्रवावधानमन्तरा पुनभवेत्तु तच्च शास्त्रकृद्यदाऽऽश्रवान् विबोधयेत् अकामनिर्जरागुणाल्लभन्त आर्यमार्गगा, उदित्वरां दशां न सोऽन्तराश्रवप्ररोधिताम् / क्रमाच्छमित्वमाप्यते ततः परम्परा शुभा, ततोऽवमान्यते बुधैर्न भिन्नताऽऽश्रवाश्रिता. भवेन्नरोऽत्र धर्मभाग् यदीष्टमार्गमागतो, निरोधने सदोद्यतो वधादिसङ्गताश्रवात् / जिनोऽप्यशेषबोधवान् सुदीर्घकालरोगयुग्, . न चान्ध आत्तवान् विकर्मिकं दयोद्यतः खलु // 16 // // 17|| आश्रवे पुराणकर्म जन्तुना निकाच्यते, हस्वकालमियते प्रदीर्घकालभाविताम् / महारसं नयेत्परं बहुप्रदेशमल्पकं, . यतो निरोधनेऽस्म तु प्रधारयेद्विपर्ययम् // 18 // जीवोऽनीशोऽयमात्मप्रतिनियतविधौ सौख्यदुःखैकहेतो, प्रेयोऽसावीश्वरेणाशुभशुभकृतये हीत्थमाहुः कुतीर्थ्याः / तेषां वार्ताऽऽश्रवाणां न भवति सुखदा कर्णयोः श्राव्यमाणा, स्यादेषा कर्णरन्धेऽमृतरसतुलिता येन दासत्वलीनाः // 19 / / यथाऽऽतुरो वैद्यनिवारितोऽपि, जाननपथ्यं परिहर्तुमिच्छुः / रसेप्सुरत्त्यन्ध उदस्तवीर्य-तथैव जीवः सुखकाम्यघेषु // 20 //