________________ // 10 // जैनगीता। हेतुकार्यभेद एव चेत्तदा न संशयो, न जैनमार्गगा नराः श्रयन्ति जातुचिद् बुधाः // 9 // न चास्ति जन्तुजात एष एक एव सम्भवो, यतोऽङ्गिनां क्षणं क्षणं नवा नवाऽस्ति भावना / भवन्ति वीर्यशालिनोऽङ्गिनोऽर्हमार्गगाः परं, पुरातनं घनं विनाश्य कुर्वतेऽल्पमेव तत् प्रदृश्यतेऽबुधोऽपि विज्ञसङ्गतो बुधीभवन् , प्रजायते जडोऽपि बुद्धिमाननिष्टसङ्गमात् / यदा तु कर्मबन्धनानुसारि . कर्म नूतनं, तदाऽखिलोऽपि धर्मवाह ईक्षणीयो मुधोदितः विज्ञैः सदाऽन्तरमुखैरुदयागतानां, प्राकर्मणां प्रतिपदं क्रियते निरोधः / आचर्यतेऽघहतये विविधो हि धर्मः , सर्वं तदेव पृथगात्मकता द्वयोश्चेत् ज्ञानादिघातकरणप्रवणा हि योगा, ज्ञानादिघातकरसप्रभृतीन् दधानाः पूर्वं कृतं दुरितमाप्तचयं दुरन्तं, कुर्वन्ति तत् पृथगिदं मतमाश्रवाख्यम् [हेतुममुमाश्रयते पृथक्त्वम् ] // 13 // मुक्तये जिनोपदेश आश्रवेभ्य उत्सृतौ, संवरोऽथ तद्भवः क्षयोऽथ कर्मणां ततः / तदेवमाप्यते यदा तु बन्धशून्यताऽखिला, पुराणकर्मनिर्जरा तदाऽव्ययं पदं भवेत् // 14 //