________________ जैनगीता / / चतुर्दशोऽध्यायः / (आश्रवाधिकारः) . वेद्यते सकलजन्तुभिर्भवे, कलां कलां प्रति सुखं व्यथान्वितम् / कर्मणामुदयतो, न चाप्यसौ, बन्धमन्तराऽऽश्रवानृते न सः // 1 // जैनो मनुते तत्त्वावल्या; तद्योगानाश्रवहेतूनग्न्यान् / आश्रवभेदौ द्वौ शुभमङ्ग कायोक्तिहृद्योगद्वैध्यात् .. // 2 // दुःखे च सौख्येऽसुमतां समस्ति, यथानुभावः सततं निजऽङ्गे। तथैव बोधावरणादिजाते, स्वभावरोधाद्विदुषाऽभिमान्यः // 3 // सुखद्वन्द्वमाविश्वकास्त्यात्मनोऽन्त-स्तथैवात्मबोधादिनाशात् पराणि विपाकप्रविष्टानि विज्ञस्ततोऽष्ट-कर्माणि मन्वान उदारदर्शी // 4 // एको वधो हेतुफलानुयोगी, चेत् त्यज्यते, त्यक्तमघं हि सर्वम् / स्वरूपहिंसा प्रथमं हि पापं, भिन्नानि मिथ्योक्तिमुखानि तस्मात् / / 5 / / मुनिर्भवेत्सर्वत एनसो घृजौ, क्षमो, ह्यशेषा न पुनस्तथा क्षमाः / अभ्यासधामान्य आप्तवर्या, अणुव्रतानीह परेषु रान्ति // 6 // तथाऽत्र शेषाधविलोडनाय, मतानि पश्चाश्रवद्वारि विज्ञैः / / योगाः कषायाः करणाव्रतानि, तथैव शास्रेण प्रणोदितानि // 7 // जीवा बध्नन्ति कर्मोदयमनु सदृशं तद्भवेदाश्रवेषु, भागोऽपीष्टोऽत्र कर्मस्थितिमितिसदृशो योगमानाः प्रदेशाः / प्राच्यैः क्रोधादि भिस्तु भवति रसचयस्तन्न भेदोऽस्य बन्धात् , बद्धं कर्मानुभाव्यं न च परजनितं ह्याश्रवास्तन्न योग्याः // 8 // कर्मवेदनं भवेद्यथाकृतं पुराङ्गिभिस्तदाश्रवा न तत्त्वगा भवेयुरोप्तसङ्गिनाम् / /