________________ FG जैनगीता / पुरातनस्य कर्मणः फलं प्रवेदयज्जनो, नवीनमन्दतीह पापमेव दीर्घकालिकम् / ततो विधातृतेशितुर्न शोभते सतां गणे, न चेश्वरे पदं भवेद्भवस्थबालकोचित, . तदेतदुक्तमहतां विमुच्य फल्गुवादिभिः // 28 // जैना ब्रुवन्ति जगतीसकलासुमत्सु, मैत्र्या यदत्र भुवने दुरितं न कोऽपि / भो! सन्दधातु, यदि चाऽकृत पाक् तथापि, धर्मात् प्रणाश्य फलवेदनभाक् तु माऽस्तु // 29 / / भावानुकम्पनयुता मनसा स्पृहन्ते, यन्मुच्यतां जगदिदं सकलाघभारात् / नास्तीह यद्यपि समस्तजनस्य मुक्तिः , .. सम्बन्धिजीवनपरोक्तिरिवेह योग्यम् .. // 30 // यन्मुच्यते मनुजभावगतो हि जीवस्तस्मिन् सतीह जगतीतरसत्त्वसत्त्वम् / आवश्यकं, न च भवन्ति समे मनुष्या स्तन्नास्ति सम्भवि परं करुणोक्तिरेषा // 31 // जैनः स्यात् सो विविधविधितोऽघौघभीतः पुरापि, लब्धे धर्मे प्रचुरकरुणासङ्गतेलब्धमैत्री / मान्योऽस्य स्याद्विविधविधिना हिंसनाधादिवर्जी, देवः साधुः प्रवचनरतो धर्मधुर्योऽव्ययार्थी // 32 // इति त्रयोदशोऽध्यायः /