________________ जैनगीता। बन्धोऽधानां विरमति यदा रुध्यते तद् गुरुभ्यो, ज्ञात्वा रूपं विरतिनियमं धारयित्वा त्यओज्ज्ञः / : . नामाक्षिप्तं भवति जनता गोविधानेषु तेन, ....... सत्यङ्कारैर्विहितशपथैस्तोषमानेय आप्तः // 22 // सूक्ष्मत्वं स्थावरत्वं विकलितकरणं कायपार्थक्यहानिदौर्भाग्यं दुःस्वरत्वं स्थितिरहिततनुर्वाक्यमादेयशून्यम् / अङ्गोपाङ्गादिघातं गतयश उदिति सर्वमित्यादि पापान , : . मत्वा सुज्ञो विरज्या जिनमतनिपुणो जैन एनःप्रयोगात् // 23 // यथाऽऽकरोद्धृतगुणप्रशस्यान् , महार्यता मौक्तिकमालिकायाः / तथैव पूज्यो नर उच्चगोत्रा-द्विश्वेऽनुपूज्योऽस्ति परप्रभावः // 24 // दृश्यन्ते जगतीह सौख्यधनिकाः शून्या वरैः साधनैस्तद्युक्ता अपि दुःखभारकलितास्तत्स्फूर्जितं वेद्ययोः / सद्व्ये वरयाचके न वितरेत् प्रेस्यं लभेतापि नो, वीर्ये भोगयुते भवेद्विमथनं तद् दुष्कृताजन्मिनाम् // 25 // लोके लोकोत्तरे चावनि परिहरणस्याहमेतन्न शङ्का, लोकास्तत्त्वार्थमुक्ताः परिभवपदवीं पापिनः प्रापणीयाः / / आत्येति क्रीडयेदं प्रभुरभिनयते पुण्यपापक्रियासु, विश्वं तल्लोकसब्धः कपिवदभिधरत्येष चेष्टाऽसमर्थः // 26 // . चिन्तयन्ति नैव ते दयोक्तयोऽतथाभवा, . व्यथोडुरे भवेत्पदं कृपालवस्य सा परम् .... पुराणपापपाकजाऽपरं च निर्दयः प्रभुः, करोति जातमङ्गिनं महाव्यथाऽर्भकादिषु // 27 //