________________ जैनीता। तदेवेन हि विदितं नैतत् , यन्नातीन्द्रियवेद्यात्मा सः / जिनपाः सकलज्ञास्तद्विविदु-निन्युर्मागं तद्घातोत्कम् // 13 // पापापहतो शक्तं मार्ग, विदितं जगतीजनहितकारम् / सम्यग्दर्शनबोधचरित्र-युक्तं स्वात्महितैषी श्रयते // 14 // पापानां यन्निदानं वधविरतियुतं व्यर्थवागादिहानं, विज्ञायाचार्यपार्श्वे तदकरणविधौ सन्त्यजेत् सर्वथा तत् / हतूनां सर्वथा यत् परिहृतिरमला शङ्कनादौ गतानां, त्यक्त्वा पापौघमेवं स्वगतमुदयते रूपमात्मा स्वभावात् / / 15 / / पुण्यं च पापं च न तत्त्वशास्त्र, तत्त्वे पदे नैव विचारिते यत् / बद्धं परावर्त्तयते ऽपि पुण्यं,. क्षमादियुक्तः सुकृतं च तद्वत् // 16 // तथा स्वरूपेण विपर्ययेणा-नुभूयते कर्म समं द्विधाऽपि / प्रवेद्य पापं तपसा विनाश्य, द्विधा भवेन्निर्मल एष आत्मा // 17 // परस्परं सङ्क्रमभावभाजो, मूलादभिन्नाः खलु कर्मभेदाः / अन्यच्च जीवादय आप्तभेदाः , परस्परं युग्ममिदं न चैवम् // 18 // मिदा या मता आश्रवे बन्धने च, ता एव भक्ता द्वयेऽस्मिँस्तता न / प्रतीत्य भोगं प्रतिघातशून्यं, सम्यक्त्वमुख्याः सुकृतेऽपि गम्याः // 19 / / आत्मस्वरूपे प्रतिबन्धकत्व-मपेक्ष्य पापेऽधिकृता मुनीशैः / सापेक्षभावे हि विरुद्धता न, विरोधदोषप्रतिपादिनी स्यात् // 20 // शुभाः पुद्गलाः पुण्यरूपेण जीव-र्य आत्तास्तके पुण्यमन्यत्तु पापम् / चयो योगतः कर्मणां च स्वभावो, यथा काययोगाद् बहिः पुद्गलानाम् / मतं नो कृतं नो न चोक्तं तथापि, पुराणस्य पाकेऽविरतोऽनमन्देत // 21 //