________________ जैनगीता। निरोधः सर्वेषां मुनिभिरुदितः शास्त्रविधिना, परित्राणायाऽघात् सततमुदितादाश्रवकृताम् / परं योगाः पापा वधमुखगता रोध्यपदवीं, गता रोध्या विज्ञैर्निखिलदुरिताध्वरुधिकृते .... // 4|| रुणद्धयत्रता न्यत्रता] न्युग्रपापानि साधुरशुद्धा निरुद्धा भवेयुस्तु योगाः / कषाया.. हृषीकाणि रोध्यानि पङ्कतो, भवेत् सा तु मध्ये मुहूर्त्तस्य साधोः (जन्तोः ) // 5 // विवेको हि तेषां यतो यत्न एषु, विपक्वेषु कार्या कृतेर्निष्फलत्वम् / प्रवृत्तिश्च तेषां यथा . नोदयः स्या दिति प्राप्तधर्मा निरन्थ्याद् वधादीन ईर्याभाषणाऽऽत्तिक्षिपति-परिहरेषूद्यतो योगकार्यगुप्तो वाकायचित्तैः . श्रमणप्रभृतिभिर्धर्मभेदेतात्मा / क्षुत्तृड्मुख्या विवाधाः सहत उदयगा भावयन् भावनौघ, चारित्रे चाररूपे चरति दुरितहासं वृतोऽवश्यमेषः एवं योगेषु. शुद्धष्वनुगतसुविधिः साधनं चारु धत्ते, श्रेण्याः कर्मक्षपण्या यदि परमनणुः कर्मभारश्चिरत्नः / सर्वार्थान्तेषु देवो भवति स सुयति विभद्रो विशेषात् , सर्वाङ्गापूर्णवंशे जनिमुपसरिता सिद्धिमेता ध्रुवं सः . // 8 // यद्येषोऽनल्पकर्मा परिपतति वृषात् संवराद् दर्शनाच्च, नैवासौ संसृतौ स्याद् भ्रमणमनुगतोऽपार्धवर्त्ताधिकं तु /