________________ जनगीता। सम्यक्त्वं चरणं विनयाद्यं, वैयावृत्त्यं सह पाठाद्यैः / यान्यहत्पदकारणभूता-न्यहत्पूजादीन्यमितानि // 24 // यद्यपि पुण्यापुण्यक्षयतः , साध्या मुक्तिः शासनशस्ता। तदपि च जिनपाऽऽदेशाः पुण्ये, कारणभूता न पुनर्दुरिते // 25|| श्रेणिक्षय्याः प्रकृतयः पापाः, सर्वत्रास्ति क्षय आप्तोक्तौ / .... ...... .......................प्रतिपदमेनोवृन्दम्यार्थः / // 26 // कषायतो भवति कर्मणां रसे, बन्धने विमात्रया सदाङ्गिनाम् / तदुक्तिरेनसो रसेन पुण्यगे, मन्दताऽनुगो रसोऽत्र गीयते // 27 // निर्जराकृते कृतान्यशेषधर्मसाधनान्यबन्धकानि सन्ति नो परं तदर्थिताऽत्र न शुभोऽपि पुद्गलांश्रयो निमित्त्यपीष्यते नहि // 28 // जिनेन्द्रवाङ्मयेष्वघानि निन्दितानि विस्तरात , .. कृपापि पापमाश्रितेषु दुःखितेषु सम्मता / पुद्गलैः सुखं भवत् प्रशस्यते क्रियादरे, फलं वृषस्य मुक्तिवत् सुरालयोऽपि शस्यते // 29 // मुक्त्यर्थमुद्यतमतिर्यदि सावशेषाऽदृष्टो भवेत् सुरनराधिपऋद्धिपात्रम् / अत्रैत्य मुक्तिमपि साधयति प्रधानां, मत्वेति पुण्यपथभृत्तु भवेत स जैनः . . // 30 // इति द्वादशोऽध्यायः /