________________ जैनगीता। // 14 // तन्वादिहीनस्य न चेश्वरस्य, किन्त्वेकमेवाऽत्र सह हि कर्म आट्यम्य रोगै रहितस्य कश्चित् , कुले जनिं प्राप्नुत इष्टदात्रीम् / परोऽपरस्मिन्नहि तत्र मुक्त्वा, कर्मैव, हेतुः प्रवरोऽस्ति कश्चित् // 15|| अक्षाणां पटुताऽऽयुषः सबलता शत्रौ जले जङ्गले, रक्षा सङ्गरसार्थजातविपदि चौराग्निजाते भये / दुष्टेभ्यो नृपतिभ्य ईतिसमितौ व्यालाहिनागोद्भवे ऽक्षेमेऽजायत इष्टितो नरभवे तत्पुण्यविस्फूर्जितम् // 16 / / तनोति भक्तिं जनता मुदाढ्या, कुर्वन्ति विद्यानिपुणं हि पाठकाः / लभन्त आढ्यत्वमुदारनेतुः, सुखाकरं सत्कुलमेव पुण्यात् // 17|| अशुभबन्धानि समस्तपुण्या-न्याहारयुग्मं जिनतां विहाय / आये निदानं शुचिसंयमो यत् , सम्यक्त्वहेतु जिनताजने हि // 18 / / पुण्यं प्रधानं भरतानुजे य-द्धलं नृपेन्द्रादधिकं द्वयाऽऽहवे / रूपं हि नाकौकस ईहनार्ह, सनत्कुमारे न ऋतेऽतिपुण्यात् // 19 / / पुण्यात पृथिव्यादय आनुकूल्यं, नैयत्यमिष्टेऽतुलहेतुतां दधुः / यनादयो न प्रभवन्ति तस्मिन् , मोक्षस्य मार्गे च सहायिताऽस्य // 20 // सर्वार्थवेत्तार उदारभावाः , सर्व समानाः परमग्न्यपुण्यम् / जिनेश्वराणां निखिलोक्तिसारा, वाणी जने संशयभेददक्षा ||21|| अतीर्थपा यद्यपि साधुवृन्द, प्रवाजयन्त्येव परं प्रवाहः / व्याप्येह तीर्थं जिनराजभूता, प्रभाव एषोऽमलपुण्यसंहतेः / / 22 / / मैत्रीमुदिताकरुणोपेक्षाः, सत्त्वाऽधिक-दुःखि-कुपात्रे धयं शुक्लं जिनगुरुसेवा, पुण्याङ्गान्युपकृतियुग् रक्षा / / 23 / /