________________ 30 जैनगीता। आस्तिकवर्गः सर्वः पुण्यं मनुते काङ्क्षासिद्धथै चारु, अष्टविधा न मता पुनरेषां कर्मण आवलिका ह्यनुमेया। जने धर्मे ज्ञानादीनामावृतिगमनात् साऽष्टविधा वै, पुण्यं तत्राघातिनिबद्धं पापमघातिनिबद्धं कर्म // 9 // वेद्ये नाम्न्यायुषि गोत्रे स्युः शुभसंयुक्ता अशुभास्तास्तु, शुभ्रा नामाद्याः पुण्यात् स्युः पापात्त्वशुभा एताः सर्वाः / योगात् कर्माश्रवति प्राणी पुण्यं तस्मात् सुन्दररूपात् , न विरुद्धं निर्जरया यस्माच्छ्रेणिं त्यक्त्वाऽनुत्तरजन्मा // 10 // मन्वानाः पुण्यतत्त्वं कतिचन विबुधा मन्वते पापतत्त्वे, हान्याः पुण्यं प्रकृष्टं परिगतमुदयेऽस्मिंस्तथाऽल्पं तकत्तु / नैतद्युक्तं यतो वै परिजनविभवाद्यं सुखस्यैक हेतुनैंतच्चाभावजन्यं न च दुरितहतेः पुण्यमेतद्धि कुर्यात् // 11 / / पुण्यं त्रिधा मतिमता गदितं त्रिधा तु, पुण्यानुबन्धजनकं निरवद्यवृत्तः / पापानुबन्धमपरं जनयत्कुदृष्टेः, . श्रीवीतरागपदगादनुबन्धशून्यम् अज्ञो नरः फलमुपेत्य भवेत् प्रसन्नः, पुप्यस्य, वेत्ति न तु पुण्यविकाशहानिम् / भुक्त्वा फलं दुरितसन्ततिजातमज्ञ, उद्विग्नतामुपनयत्यघहान्युपेक्षः शिशोर्न जातिर्जनकाद्यभीष्टया, शिशोरभी'साऽपि न तत्र हेतुः / // 13 // // 13 // था,