________________ जैनगीता। मृल्लेपादियुतं वरतुम्बं व्रजति तले धृतजलनिकुरम्बं, अपगतलेपं तिष्ठेदुपरि तद्वन्मुक्तो भुवनतलोपरि . . / / 17 / / तत्त्वे द्वे जगति स्तः तत्त्वात् जीवाजीवौ भिन्नाभावात , नह्येतावन्मात्रोक्तौ स्याद्धयाऽऽदेयविवेकाभावात् / मोक्षपथप्रथनं, तत उक्ता सप्त सुतत्त्वी तत्त्वार्थोक्ता // 18 // अपेक्ष्यवादः सदसत्प्रवादो, विभज्यवादः परिवर्सवादः / / वादा अनेके जगतीह मूर्ध्नि, स्याद्वाद आख्यद् द्रविणे त्रिकालम्।।१९।। ... एवं जैनो जिनवरगदितेष्वागमेष्वेकचित्तो, जीवाजीवौ मनुजमतिगतौ मन्यते शुद्धभावः / .:. एवं साध्यं प्रवरमतिमान् रत्नत्रय्यात्मकं तु, . .. ... चित्ते धृत्वा नियतमुदयवान् जैनमायाति मार्गम् // 20 // , इति एकादशोऽध्यायः / , / द्वादशोऽध्यायः / (पुण्याधिकारः) पुण्ये भेदा भविसुखकृतये विंशती द्वे द्वियुक्ते, वेद्याद्युत्था यदि च भविनो ह्यानुकूल्ये ह्यपेक्ष्यम् / सम्यक्त्वाद्याः प्रकृतय उदिताः सर्वमेतद्धि सत्यं, जैनो जैनं प्रकृतिसुभगं त्वाश्रयेत् स्यात्पदाङ्कम् अकामनिर्जराबलाच् चिनोति पुण्यमुत्तमं, निगोदतः प्रयात्यसुस्ततो बहिर्निगोदताम् / . ततस्ततोऽनुयात्यसौ दशां च व्यावहारिकी- . मुपैति सूक्ष्मबादरक्षितिप्रभृतिभावताम् // 1 // // 2 //