________________ जैनगीता। / एकादशोऽध्यायः / ( अजीवाधिकारः ) जैनः सदा मनुत आत्मविभिन्नरूपान् , धर्मेतराभ्रसहितान् विविधाणुसङ्घान् / जीवाणुसङ्गम इहानुविशेतु युक्ति, .. मन्येत लोकमितरं क्रमतश्च चेद् ज्ञः // 1 // धर्मों गतौ भवति हेतुरिहाङ्गयणूनां, . . तेषां स्थितौ प्रभववान् इतरो ह्यधर्मः / अभ्रं तृतीयमवकाशमथो ददाति, वर्णादियुक्तमिह नास्त्यपपुद्गलं तु // 2 // भवेयुस्त्वणुभ्योऽङ्गवाङ्मानसादि सुसोक्षम्यादिबन्धान्तयुक्तास्त एव / द्विधा तेऽणवः स्कन्धरूपा ह्यनन्ता, . हि द्रव्यार्थताभेदयुक्ता अनाशाः // 3 // अभ्रे जीवे पुद्गले चास्तिकायेऽनन्ता अंशा एकजीवे त्वसङ्ख्याः / धर्मेऽधर्मे पुद्गलेऽसङ्ख्यकास्तु, कालो द्रव्यं मानुषे लोक एवं // 4 // यचन्द्राद्या गगनगमनतश्चारिणोऽत्रास्ति भागे, घस्राद्यास्तद्भुव इह मताः कालभागास्तथैव / वृत्तिर्नामः कृतिरधिकृता सर्वदा सर्वभागे, कालस्यैषोपकृतिरपरा केन नैवाद्रियेत ? . // 5 // प्रतिक्षणोत्पादविनाशनित्या-वस्थास्वरूपं सकलं हि वस्तु / किश्चित् स्वरूपेण पराश्रयेण, किञ्चित्त्वजीवा अपि तत्स्वरूपाः // 6 //