________________ जैनगीता। सर्वेऽप्यघेभ्यो जीवजातघातान् , महत्तरं पापमुशन्ति विज्ञाः / आत्मोपमानेन सुदृक समाचरेत् , परेषु चेष्टां जिनमार्गमग्नः // 10 // स्वकीयाापेन भवन्ति दुःखिताः, संसारिणस्तत्र हृदुक्तिकायैः / यस्योस्ति वृत्तिः स दधाति पापं, मत्वेति हिंसाविरतो हि जैनः // 11 // मषोक्तिमुख्यान्यपि जैनमार्गे, मतानि पापान्यधमोदयानि / परं प्रतीकारनिवृत्तिहीनं, हिंसोत्थमेनस्त्वतिदुस्तरान्तम् // 12 // कर्मावृता निर्मलतेक्षिणो जना, देवान् गुरून् धर्मपदानि नित्यम् / / सेवन्त आदर्शतया व्यघानि, यथा प्रदीपान्नवदीपजन्म // 13 // व्यक्त्यादि भूतं नहि जैनमार्गे, देवादितत्त्वं स्वगुणार्पकं न / निमित्तभावेन गुणान्वितत्वात् , फलन्ति सेवाश्रयिणां नराणाम् // 14 // लोकानुभावान्वितभव्यताया, योगात परावर्त्तमुपेत्य चान्त्यम् / आलम्ध्य देवान् गुरुधर्मयुक्तान् , भव्या लभन्तेऽव्ययधाम वर्यम् // 15 // कालेन मोक्ष गतवन्त इष्टैः , सुसाधनैर्य ननु ते ह्यनन्ताः / भवो न तेषां, गमितार एवं, जीवाननन्तान् मनुतेऽत आप्तः // 16 / / सूत्रग्रवारः प्रलयेन वार्धेः , क्षयं प्रकल्पेत यथा न विज्ञः / कालेन सर्वेण न मुच्यमाना, असख्यभागप्रमिता निगोदात् // 1 // अज्ञाः परे जीवविहिंसनादि-कार्यैः समुत्पत्तिमुशन्ति धाम् / .. रक्षापरा ज्ञानसुदृकचरित्रे, जैनास्ततस्तेऽनघमोक्षगामिनः // 18 / / भूतोत्थो नैव जीवो, न च समुदयजो, नैव भागोऽन्यसत्को, नाकर्ता भोगहीनो न च, न च कलितोऽज्ञानमूर्त्या, न चान्यः / क्षित्यादेर्भूतवृन्दात् न न परभवगो नैव जातो न नाशी, प्रत्यक चैतन्यधर्तन् शिवपदपरमान् जैन आख्याति जीवान् // 19 // इति दशमोऽध्यायः / .