________________ 237 आगमोद्धारककृतिसन्दोहे दुःखं सर्वसुरासुरोरगगतान् मृत्योरसूनां दृढं, ___सौख्यं पौद्गलजालसम्भवमलं स्यात् प्रार्थनायाः पदम् / एवं कर्मनिबन्धनकविधुरः प्राणी भवेऽटाटयते, * धन्योऽयं जिनपागमो यदुदिता मोकमार्गप्रथा // 238 // हा हा ! भीषणकाल एष न यतः सत्यार्थदृब्धौ रताः, सूर्याद्याः प्रचुराश्च पुस्तकपरावत्ततॊद्यता वादिनः / भूमीशा विबुधाश्च पक्षपतिता दाक्षिण्यलोभोद्यता, अल्पा मार्गरतास्तथापि जयवानाप्तागमः शुद्धवाक् // 239 // स्वप्नोपमं वै सकलं ब्रुवन्नयं, वाक्यं स्वकीयं व्यथितं निवेदयेत् / तथैव सर्व क्षणिकं विबोधयन्न चैष बाधस्निगमागमे भवेत् // 24 // अतीन्द्रियार्थ नहि वेत्ति कश्चि-च्छिवं भवो वा न च वेदनीयः / तथापि तद्वाच इयं कुतीर्थिता, स्त्रोक्तेर्न बाधाऽऽगम आप्तसम्मते॥२४११॥ सौख्यं दुःखं ज्ञानं भ्रान्ति, पश्यन् प्राणिषु चित्रविचित्रम् / आत्मैको विश्वव्यापी वा-वक्ति विरुद्धं न तथाऽऽगमगीः // 242 // चार्वाकः पूत्कुरुते नास्ति, परभवगामी चेतनयुक्तः / जातिस्मृतिदुःखाभ्यां विद्ध, आगममेवाऽऽश्रयते शरणम् // 243 // मानं ह्येकं मतमध्यक्षं, श्रोतृञ् शासन् न धरति लज्जाम् / शब्दाद्वाच्यविबोधं कुर्व-नाध्यक्षेतरवाद्यागमवाक् // 244 //