________________ 236 आगममहिमा ज्ञानानन्दविवर्जितं खलु शिवं वैशेषिकाः कल्पितैदुःखैर्मुक्तिमिहाक्षपादमतिकैर्वेदान्तिभिब्रह्मणि / मेलं वैष्णवशैवशास्त्रमतिभिर्देवात्मनोः सल्लयं; नित्यानन्दसुखाश्रयं गतभवं जैनागमास्तच्छ्रिताः // 233 // पदार्थे सत्त्वं यन्न च खलु पदार्थात्मनि गतं, स्थितं तत्तस्मिन् यद् बहिरनुगतो बन्धनयतः / इदं मन्वानोऽयं विदममिगतेऽर्थेऽखिलगतां, कणादोऽध्यक्षं सा न भवति हतिः स्वागमततौ // 234 / / मोक्षायाऽऽलिखिता शुभा मुनिवरैर्लोकोत्तरा पद्धति स्या चेत्तनुरर्यते रिपुजनैः सत्कार्यते सौहृदैः / श्रीखण्डेन, तथापि शुद्धमनसः साम्यं द्वयेऽस्मिन् भवेद्, वैराग्याप्तसमज्ञता जिनमते योग्यागमानां ततिः // 235 / / / समस्ता विद्वांसो विदितविविधार्थीचयगणा, न देवाद्यैर्वायं मरणमनिशं यन्निखिलगम् / न चानायुष्कोऽत्राणति विदितसवौषधिगणस्तथाऽप्यङ्गी नित्यं तदुभयमना आगम ऋणः // 236 // लोकोत्तराध्वगमिता वतिनां विशुद्धा, यन्मोक्षमेव विविधक्रिययाऽऽस्तुमिच्छा / . . देवासुरादिसुखसाध्यपरा इमेऽन्ये, कोऽन्यो वदेजिनवरागमतोऽपरोऽदः . // 237||