________________ आगमोद्धारककृतिसन्दोहे अनन्ता अर्थानां जगति विभिदो व्यक्त्यनुमृता, द्विकास्तज्जात्या भवति विज्ञातमिति विदा / ततो ध्वान्तच्छायाप्रभृतिसद्रव्यपटुता, जिनोक्तानां सिद्धा प्रमितिपदमाप्तागमततिः // 228 / / गुणान् पर्यायांश्चागमततिरिहानन्तगणिता नुवाच प्रत्यर्थं विबुधगण इत्थं मतिमयेत् / शिशुक्रीडाप्रायं परमतत्ततौ मानमुदितं, न चाध्यक्षो बाधो ह्यवगत इहान्यः कुमतिभिः // 229 / / द्रव्ये गुणे परिमितिं न कणाद आह, युक्ते क्रियाभिरनुगामिभिरुत्पथाग्न्यैः / सोक्ता विचक्षणपदाय पराभिलाषै ३षोऽस्ति विप्लव इहागमसम्प्रदाये // 230 // वैशेषिकेण विदितं कथितं स्वस्त्रे, ___व्यावर्त्यधर्मसदृशात्मकमर्थजातम् / नित्यादिषु प्रमुखधर्ममुवाच शिष्य, .. आप्तागमोक्तिविमुखैर्न विडम्बितं किम् ? // 231 / / साधादिमतेः शिवं कणभुजोऽव्यक्तादितत्त्वावनात् , साङ्ख्याः , शैवमुरारिधर्ममतयो भक्तेश्च वेदान्तिनः / विश्वस्वप्नसमानंतामतिगुणाच्छाक्या निरात्मत्वतः, . उचुर्वास्तरणे यथा मतिक्रिये (गती) जैनागमास्तद्वयम् / / 232 / /