________________ 234 आगममहिमा न मातृशून्यस्तनयस्य सम्भव, आबालगोपालमितीह सिद्धम् / / म्लेच्छा हि तातं परमेश्वरस्य, लुम्पन्त आख्यान्ति प्रसूं न चाऽऽगमाः // 22 // इमे बाह्यास्तीर्थ्याः कथमपि नहि प्रोतति विभोर्वचस्तेषां कण्ठे लुठति फणिवत्मानरहितम् / समं विश्वे दृश्यं भवति विभुतः कायरहितादितीक्षित्वाऽयं ना भवति नितरामागमरतः // 222 // परैः पदार्था उदिता विहीनाः, शक्त्याऽत्र भार्थोऽस्ति विहीनशक्तिः / नासौ क्रिया नैव गुणश्च नार्थो, जिनागमज्ञैर्व्यथितं जगत्परम् // 223 / / पदार्थानां चित्रां ननु च जगता शक्तिममितां, . पृथिव्यम्भोवायुप्रभृतिभावेषु नियताम् / विबुध्याऽध्यक्षं द्राग् यतत इह तन्मतिमती, __ तकां श्रित्वा सम्यग् जिनपकथिताऽऽगमगतिः // 224 / / जाता नैव सचेतना न च पुनश्चैतन्यशून्या अपि, तेनानहविभागमाहुरनलाः पृथ्व्यादिद्रव्याश्रितम् / भूतग्रामविधानतो विधिरिह प्राणेष्वपि प्रासुके, ___ ह्यौदारादिविभागमाहुरमला जैनागमाः सत्पथाः // 225 / / द्रव्याण्यनन्तानि भिदोऽप्यनन्ता, बोथ्यानि सर्वज्ञपदोक्तिमानात् / तद्रव्य-सभेदविधायबोधो विरागसर्वज्ञनरागमे न // 226 / / जीवोत्क्रमोद्भावितभूरिभेदाः, क्षित्यादयो नाणुभिदोद्भवास्तत् / अन्यान्यनामेन भिदाविरोध औदारिकाद्या बहुभिजिनागमे // 227 //