________________ आगमोद्धारककृतिसन्दोहे 233 समवायं समवायो विदुषां परिपठति कल्पितमवाये / निखिला गुणादयोऽर्थ, श्रितास्ततो नागमस्त्वेवम् // 213 / / साधयं वैधये, पदार्थधौं तथा मतिर्मातुः / समवेतमेकमन्यन्न तथेति जिनागमो नैवम् // 214 // तादात्म्यतो ह्यभावाः, श्रिताः परं वस्तु भिन्नताश्रयिणः / इदमन्योऽन्यविरुद्धं, न वक्ति जिनपागमो जातु // 215 / / यो ग्रन्थस्य गतान्तरायचरमप्राप्त्यै विधत्ते बुधः, शास्त्रे मङ्गलमादितः स मनुयात् प्राग जन्मतो नास्तिकान् / माङ्गल्यैकविधी नु तात नुहं धर्मोद्धुरा नास्तिकान् , (?) नो जैनागममाश्रितः कृतगुणं ह्याप्तं स्मरन् मङ्गले // 216 / / यो जैनागमबाह्यगः स मनुते स्रष्टारमुत्कर्मणं, जीवानामशुभं शुभं च नियतं कर्मोपभोक्तेश्वरः / . सृष्टेयत् प्रविधानमर्हति ननु शून्योऽस्य पुण्यं न तत् , मन्येताऽकृतसङ्गमं कृतहति हान्याममानां स्थितिम् // 217 // विदितं विदुषां निचयस्य सदा, नहि कार्य स्यात् क्रियया रहितम् / मनुते परमेश्वरमक्रियकं, समकर्तृपदं न जिनागमगः // 218 / / मनुतेऽक्षजमर्थसमं ज्ञानं, जगतां परमीश्वर ऊरीकृते / .. रहितं मतमुत्तमज्ञानमरं न जिनागम एवमयुक्तिपरः (दः) // 219 // नाकारणं कार्यमिहास्ति किश्चि-दिति प्रवादों विदुषां गणैर्मतः। . तथापि जैनागमबोधशून्या अपितृकं पुत्रमुदाहरन्ति // 220 //