________________ 232 आगममहिमा मोक्षायोद्यत आहेतः खलु भवेत् प्रीतः पदार्थनजं, पर्यायात्मकतां श्रितं प्रणिदधन् मोक्षो भवो नान्यथा / '' दुःख्येवाऽसुधरो जनो भवततौ शश्वत्सुखं स्वे स्वदय् , श्रद्धायाऽऽगमसन्ततेः परमिदं युक्तं बुधो मन्यते // 207 / / .. साध्यं सिद्धिपदं सदा भवभृतां नान्यत्र दुःखान्तको, दुःखाभिन्नमपातसंयुतमलं प्रेप्साश्रितिर्यत्र नो / तादृक् सौख्ययुतं पदं यदि परं नान्यत् कचिद्विद्यते, निश्चेयं पुनरेतदाप्तकथिताच्छुद्धागमात् पण्डितैः // 208 / / नाशास्त्रं मतमस्ति सम्मतिपदं विद्यामुखानां जने, तत्राप्येक उशन्ति वक्तृरहितं तत्कल्पितादीश्वरात् / एके रागद्विषादिसङ्गतिपरादग्न्यादितः केचन, सर्वज्ञोदितमागमं यदि परं मुक्त्युन्मुखा आर्हताः // 210 // सत्यं शास्त्रमवाक्कृतैनररवैस्तुल्यं परं गम्यते, व्याख्यात्रा निजबुद्धिवैभवबलाल्लोके यथाचार्यते / आरम्भे च परिग्रहें यदि परं प्रस्ताऽनृतं ख्यापये द्धन्योऽसौ जिनपागमो निगदितो योऽकिञ्चनैः साधुभिः / / 210 / / परे जिनोक्तान्मततो विदूरगा वदन्ति भावं विगुणं गतक्रियम् / / परम्परानिर्गतमुद्भवंते खपुष्पतुल्यं न तथा जिनागमाः // 211 // अनेके गुणाः कारणात्तु स्वकीयात् , प्रजाताः क्षणे नाद्यमाप्यं गुणैस्तत् / तथोद्भावने तत्परो नैव जैनः , कथञ्चिद् भवेदागमः शुद्धदेष्टा / / 212 / / द्रव्ये क्रियायां च गुणेषु नित्यं, सत्त्वं परार्थप्रतीतिनिवेद्यम् / सतो ह्यसत्त्वं परतीथिकानां, स्वभावसत्तोद्भवनो जिनागमः // 213 / /