________________ आगमोद्धारककृतिसन्दोहे 227 लब्ध्वा सम्यक्त्वं गतवान्ध्यं धृत्वा मार्गगजनशुभमध्यं, श्रित्वागममतमुपगुणमध्यं गत्वा नन्दत शिवमपवध्यम् // 179 / / सहस्रं वक्तृणां भवति च यदि प्रावचनिनां, पदार्थोद्योतोत्कं जिनपतिमते साम्प्रतगतम् / तथापीष्टं तीर्थे प्रभुवचनसोङ्गत्यनिपुणे, यदि स्यात् पुस्तस्थागमततिगतमेकगदितम् // 180 / / साङ्गत्यं भविनां सदेष्टमनघं यत्सङ्घवीर्य महत् , तच्चेदागमसङ्गमं यदि भवेत् तीर्थोच्छिदे नैव तत् / पूर्वं यत्कमलप्रभेन गणिना चैत्याश्रितानां पुरः, सिद्धान्ताध्वनिरूपणेन विहितं तीर्थङ्करत्वं महत् // 181 / / जिनेन्द्र महत्यन्वहं सत् त्रिकालं, विभूत्या महत्या गताऽऽशं समग्रम् / विरुद्धं यदि स्याग्जिनेन्द्रागमैस्त-द्भवस्यैव वृद्धयै भवेत्तत्समग्रम् // 182 / / साधुर्योक एवानघजिनमतगतो विद्यते ह्यागमानां, श्रद्धाता सत्यमर्थं परमपदमतिस्तीर्थता तत्र साक्षात् / न त्वन्ये प्रभूता जिनपतिगदितादागमातीतवादास्तीर्थ यत्सत्यनिष्ठं जिनकथितमिदं तच्च शुद्धागमीयम् // 183 // जैनेन्द्र शासनं तूदितमिह निखिलं सापवादं न चान्यत् , यावान् स्याद् बन्धहेतुर्भवगतिधरणे मोक्षसाध्येऽपि तावान् / कर्मोद्वान्त्येकहेतुर्भवति परमिहोत्तीर्णमाप्तागमान्न, प्रोक्ता यस्मादनेके जिनपतिगदितोत्थापका निवत्वे // 184 //