________________ 226 आगममहिमा निरागमा निरम्बरा जने पशूपमोद्वहा, . . . निरम्बरत्वमेव मार्गमाहत ब्रुवन्त आः ! / '' श्रयन्ति केवलं स्त्रियां न चान्यतीर्थिकादिषु, न चषणां सदागमांस्ततः श्रयन्ति वित्तमाः // 173 / / यदाऽऽगमानां परमा विभूति-र्गीतार्थवक्तृत्वसुधीश्रुती श्रिता / तदेव धर्मे विजयोऽस्ति जैने न चागमैः शून्यमिहास्ति शासनम् // 174 / / दिगम्बराणां परमेश्वरा इह लिङ्गाण्डयुग्मं जनवद्धरन्ति / / भवन्ति ते हास्यपदं हि लोके, नेयं व्यथा छन्नपदे समागमे / / 17 / / नग्नाटा रचयन्ति नादमहितं यज्जैनवाग नाक्षरी, - तिर्यग्वत स्फुटतोज्झिता ननु सकेत्याहुनिराप्तागमाः। ये तु स्वागमसंश्रिता बुधवरास्ते योजनोन्मानगां, ___ मन्वाना जिनवाचमाहतमतं सर्वाङ्गिबोधं स्तुयुः // 176 / / सामान्येन जनैर्महाङ्कितनिशीथोक्ता मता पञ्चमी, ज्ञानस्योत्तमपर्वतामनुगताऽऽरोध्या ध्रुवं सत्तमैः / चेत् सूक्ष्मैक्षिकया परं यदि समालोच्येत विज्ञैर्गणे, . . शब्दास्तेऽशनिवेदिनस्त्विति नयात् सा पश्चमी स्वागमात् / / 177|| जिनागमानां श्रितसद्मानां, हतावमानां धृतसत्तमानाम् / सत्सङ्गमानां विमताधमानां, तनोत्वमानां स्तुतिमात्तमानाम् / / 178 / / हत्वा विस्तृतमिथ्यात्वाऽऽन्ध्यं कृत्वा कर्मफलं शुभसन्ध्यं, हतकोटाकोट थधिकं ध्यान्ध्यं भित्त्वा ग्रन्थिगतं दुरितान्ध्यम् /