________________ 225 आगमोद्धारककृतिसन्दोहे शून्याः सदैव गतयो न चतस्र आप्याः, सम्यक्त्वबोधयुगलेन, न जातु मुक्तिः / एकस्य तत्र किमु कारणमुज्ज्वलं न, चारित्रमेव, यदिदं जिनपागमाऽऽप्यम् // 166 / / संयमः सदैव संवरोद्धरो, निर्जरापि नवनवास्ति तत्र वै / नैव सोऽस्ति संयमादरान् , परं भवेदसौ जिनागमोद्धरान् श्रितः।।१६७।। कपेण भेदेन तपेन शुद्धता, यदागमानां ततिरुद्धरा धरेत् / तदैव सामान्यतमास्ति विज्ञैन्न चागमैरुज्झितमस्ति दर्शनम् // 168 // द्रव्यैः समेतान् समपर्ययान् ये, ब्रुवन्ति ते मोक्षगमाय योग्याः / सदागमास्तैर्जिनसूरिधर्मा, भव्यैः सदा सेव्यतमा भवन्ति // 169 / / अष्टौ वरे जैनमतेऽत्र शासने, प्रभावकास्तत्र सदागमाञ् ड्रितः / आद्यो भवेत् प्रावचनी परे पुनर्विशेषका नैव तदुज्झिताः खलु // 170 // भाषायाः समितिर्मता मतिमता वाचश्च गुप्तिः परा, यः सर्व दिवसं भणेदपि नरः शास्त्रोक्तवाचां विधौ। विज्ञीभूय परो नरो यदि पुन वोशतीह क्षणं, नास्यामू उदिते, सदागममतिर्भूयान्नरः सर्वदा // 171 / / आदेशो नैव दत्तः करणविधिगतो नैव नैषेधिकोऽपि, शिष्याणां संयमादौ जिनपतिमिरिहैकान्ततो मोक्षमार्गे / उत्सर्ग सापवादं जिनपतिकथितं मोक्षमार्गप्रवीणा, मन्वानाः स्युस्तदेतद्वयनिगदपरो ह्यागमः सुज्ञमान्यः // 172 / / 15