________________ 224 आगममहिमा न दृष्टो न वित्तो न च जगति वृत्तान्तसरणिन वार्ता नो शब्दोऽणुरपि च यस्यास्ति विदितः / ... न देशो न वेषो न च परिकरस्यांशसरणं कथं ज्ञेयो देवो यदि च न भवतीहागमगतिः // 160 // . न यो द्रव्यं दत्ते द्रविणनिचयं नो न च गृहं, .. न योषां नो पुत्रं न च शरणदो रोगनिचितौ / न यस्त्राताऽरण्ये न भवति चरणे विक्रमपरा- . . भवे त्रोता साधुर्भवति शरणं ह्यागमबलात् // 161 / / यो द्रव्यं ललनां विचित्रविषयान् स्वातन्त्र्यमुत्सादयेदाहारेऽपचितिं सदैव गमयेन्निष्काशयेत् कल्पनाम् / दाने शीलधृतौ तपस्यनुपमे सद्भावनाभावने, भव्यं धर्मवरो नुदन् शरणदो मान्यो भवेदागमात् // 162 / / मुक्तिनँव भवेद् भवभ्रमिभृतां कालादनादेर्बुवात् , . सत्यं स्यात्तदिदं यदा नहि भवेन्नाशो ध्रुवाज्ञानगः / सर्वेषां भवधारिणां विषयजं सौख्यं सनानादिजं, युग्मं नश्यदुपेक्ष्यते यदि पुनश्चेज्जैनमार्गागमात् . // 163 // सत्स्वप्यसङ्ख्येषु सदा सुरेषु, तथैव तिर्यश्नु च नारकेषु / सदृक्षु तीर्थ न मतं जिनेशैस्तत्रास्ति यन्नो जिनपागमोदितिः // 164 // मोक्षे चतुर्गतिभृतां प्रचुरा समीहा, वीर्यं च भूरि तनुवागहृदयोद्भवं च / .. सम्यग्दृशः सुमतयश्च तथापि तं न. लब्धा न कोऽपि महिमाऽद्भत आगमानाम् / / 165 / /