________________ आगमोद्धारककृतिसन्दोमे आम्नाप्तोऽसावन्त्यावर्ती नरो भ्रमी पक्षे शुक्ले, * रूढं गूढं दहन् नु सरलेतरं ग्रन्थेर्मार्गम् / सत्सम्यक्त्वो व्रते दृढसन्मतिः मोक्षं गन्ता, हन्ता जा (या) तेः सदागमसंश्रयी // 154 // पापामयेषु वरमौषधमागमोऽयं, कल्याणकल्पलतिकोद्गमवारिधारः / सन्देहसानुविलयैकपविप्रभोऽयं, मोक्षाध्वसङ्गमकरो वरसार्थ वाहः // 155 // श्रद्धावानपि यो भवेजिनपतेः सद्भावमयोज्झितो, जैनेन्द्रागमसञ्चितेऽर्थनिचयेऽनाभोगतोऽसद्गुरोः (वाऽगुराः)। श्रद्धाया विगतो भवेद् दृढतरश्चेत् कल्पितेऽर्थे नरः, सत्सम्यक्त्वसुवेषमार्गचलितः सन्मार्गगोक्तौ दृढम् // 156 // गणधरैः पुरतो यदुरीकृतं, निषदनं जिनदेशनसद्मनि / निखिलभावविदां स गतोपमो, भविमतो महिमाऽऽगमसन्ततेः॥१५॥ श्रद्धेयोऽसौ जिनपतिगदिते ह्योगमे शुद्धदेशी, मिथ्यादृष्टिर्भवति यदि वाऽभव्यजीवः कुपात्रम् / तत्सम्यक्त्वं श्रुतगणगदितं दीपकाख्यं परं स, चेन्न ज्ञातो गतमननवरो ह्यागमोक्तात् पथो वै // 158 / / जीवाऽजीवाश्रवाणां शुचितरमुदितं बन्धने संवृतौ च, पुण्ये पापेऽपचाये कृतदुरितततेः शुद्धनिःश्रेयसे च / ज्ञानं मन्येत विज्ञैर्यदि भवति तकद् ध्यागमैकान्त दृष्टिः // 159 / /