________________ जैनगीता / एकाक्षतामधिगतः पृथिवीमुखेषु, भ्राम्यन् प्रकर्षमयते तनुजातबुद्धेः / जिह्वादिजातमयतेऽथ विबोधभावं, प्राप्य प्रकर्षनियतं विकलाक्षभावम् // 6 // क्रमोऽयमुत्क्रान्तिगतोऽसुमत्सु, ततो मतेर्भित्सु मतोऽयमुत्क्रमः / सञी मनोलब्धिमुपाश्रितोऽझैः, स्वैः पञ्चभिर्युक्त उदित्वरः स्यात् / / स्वबुद्धबोधाय परैः प्रयुक्ता, वाणी परार्थव्यवहारहेतोः / . श्रुतं ततस्तत्त्वत ईरितं वरं, शिवादिबुद्धयै भविनां जिनेन // 8 // ज्ञात्वा तदुक्तं परमार्थबुद्धं, तीर्थ्याः परे तंत् स्वकशासने जगुः / / अज्ञानवन्तोऽप्यनुकारदक्षा-स्तल्लौकिकं गोचरतीतरूपम् // 9 // लब्धे द्वयेऽस्मिन् सुगुणे भवेद्धि, त्रयं समक्षं न विना कदापि / त्रयं ह्यवध्यादि क्रमाद्धि लभ्यं, न केवलादस्ति परो हि बोधः // 10 // अरूपिबोधान्न परोऽस्ति बोधो, द्रव्याध्वकालाः सहिताः स्वभावैः / ज्ञात्वा समस्तान् प्रतिबोधयोग्या-नाख्यन् गणिभ्यः श्रुतमुक्तमहम्।।११।। श्रोता(त्रा)नुगुण्येन विभक्तमाईतै-यं प्रमाणं तु पुरा समूहितम् / मत्यादि पूज्यैः परबोधधमैं-यथैव बुध्येत तथैव वाच्यम् // 12 // ज्ञप्तिर्विमुक्तेषु न युक्रियाभि-नित्वरूपेण तदेव तेषाम् / फलं ह्युपेक्षा भवकेवलानां, मत्यादिबोधेषु फलं ग्रहादि // 13 // जीवादितत्त्वार्थमतिः प्रशस्या, हानाऽऽत्त्युपेक्षाभिरयेत् प्रबोधम् / यतः प्रवृत्तो दुरितं न बध्याद्, यतो भवेत् साधुमतेरसूनाम् // 14 / / अङ्गोपाङ्गादिरूपं बहुविधमुदितं सच्छ्रतं श्रीजिनायेस्तीर्थस्यावारभूतं श्रुतधर उदितस्तीर्थरूपो हि शास्त्रम् /