________________ जैनगीता। / सप्तमोऽध्यायः / (ज्ञानाधिकारः) ज्ञानं स्वरूपममलं मनुतेऽत्र जैनस्तेजो रवेद्युतिरिवात्रिगुद्भूतस्य / सर्वात्मनामधिकृतिः सकलज्ञभावे, स्यात् तत् स्वकीयवृजिनश्यमानमात्रम् // 1 // दीपो यथा प्रकटयेत् स्वकमर्थसाथ, स्वार्थावभासनसहो निखिलो हि बोधः / प्रामाण्यधाम परथा विगुणोत्थबाधो, हेतून् मनन्ति मुनयोऽस्य हृषीकमुख्यान् . || अन्त्यं त्रयं न धरतेऽक्षमनःसहाय, प्रत्यक्षरूपमवधिप्रमुखं तु तत्त्वात् / इन्द्रियसार्थविषयोद्भवमाद्ययुग्म, न्यक्षं मतिः श्रुतमपीह परोक्षमस्मात् // 3 // * कालादनादित इहासुमनां तु सत्ता, सा सम्भवेत् सुनियंताऽव्यवहारराशौ / नित्यं द्वयं भवति हीनतरं परं च, नो सम्भवेदवमताप्रभवो हि तत्र // 4 // बोधस्य लेश उदितो यदनावृतः स, तस्यावृतौ भवति जीव उदस्तभावः / स स्पर्शनं यत इदं तनुसत्त्वसाध्यं, संसारिणो नहि भवन्ति शरीरशून्याः // 5 //