________________ 220 . आगममहिमा भेदाः पश्चात्र शुद्धा व्यवहृतिनिपुणाः प्रोचिरे शास्त्रविज्ञस्तच्छ्रद्धा पात्रविज्ञा व्यवहृतिनिपुणं शास्त्रमेतच्छ्रयध्वम् / / 133 / / आद्यान्तिमार्हद्वरशासनाश्रितो, द्विसन्ध्यमावश्यकनिर्मितिं गताम् / द्विधौघसच्चक्रगतां समादृति, श्रीओघनियुक्तिमतः श्रयन्तु // 134 // यथाकल्पं प्रोक्ता मुनिपमहिता कल्पकरणि स्ततः कल्पा ज्ञेया,विविधविधिना भूरिभणितीः / बृहत्कल्पे प्रान्त्ये रसमिति मिता या प्रभणिता, द्विचत्वारिंशद्भिस्थितिरुचिरुपास्याऽत्र कल्पे // 135 // सूर्याश्चन्द्रमसो जगत्यतितरां तिर्यग् जनानां हिताः , सङ्ख्यातीतमितास्तथापि सुतरां धर्मे कृतानादराः / ते प्राग् जन्मनि, तेन कल्पगमने नापुः परं दैवतं, . सूर्याच्चन्द्रपदाङ्कितं ननु ततः प्रज्ञप्तियुग्मं श्रये // 136 // निरयावलिकां श्रुतपदगमिका धर्मविराधनसङ्गतिकां, अन्त्याङ्गानां पञ्चकगानां स्मृततदुपाङ्गदशाश्रयिणाम् / स्मरत सुमतयो गुणततगतयः पञ्चोपाङ्गं वृषरतयः , श्रुतमिह सर्व हतमदगर्वं स्तुतमिदमनघपदाप्तिपरम् // 137 / / फलं द्वैधं धर्मे जिनफमतगे सन्मुनिमतं, __ ससाध्यं प्राप्यं वै शिवसुखयुतं नाकिसुकृते / . शिवोद्युक्ता भव्या इतर इतराश्रितियुता, दशाश्रौते द्वन्द्वं हितकृदितराश्रितमरम् // 138 / /