________________ आगमोद्धारककृतिसन्दोहे जीवाऽजीवाऽऽख्यमुख्याऽभिगमपदयुतं यद् वृणोत्यर्थभक्त्या, चैविध्यं बुद्धिगम्यं द्विविधमुखगतं तौमि शस्तागमं तम् // 128 // विकीर्णानां रक्षाविधिरतुलसाहसकृतिपरा, सुरत्नानां यद् भवति च परं प्रोतविधिना... यथा मानं प्रोते सुगमविधिना रक्षणविधिः, तथाऽनन्ताः ख्याताः सुगमविधिनोपाङ्गनिचितौ। ( तथोपाङ्गे तुर्ये श्रुतिधृतिपरैः सर्वमुदितम् ) // 129 // यद्यपि पूज्या द्वीपान्तरगाः पूज्यगणाः सुधियां शुचिकार्यास्तदपि च जाताः ये स्वद्वीपे पूज्यतरास्ते निकटतरत्वात् / तत्क्षेत्रं महिमाश्चितिपाबं न्यायमनुस्मृत्यैनं विबुधाः, जम्बूद्वीपपदोपगता प्रज्ञप्ति महयामि मुदाहम् // 13 // भोगो रक्षा च विश्वे तनुगृहसिचयाकल्पतरूपादिकानां, संस्काराच्छुद्धितश्च न तु समधिगतेः साध्यसिद्धिस्तथैव / ज्ञानादौ दुर्लभे तत्प्रतिनियतमिह प्रापिते साधुधुर्यैः, सर्वं साध्यं सुखेनेह भवति मनश्चिंत्प्रकल्पो रमेत // 131 // मर्यादा रक्षणीया ननु सुपथगतैः पूर्वपुंसु प्रवृत्चैस्तृण्यां वैवाति सिंहायक उदितकचिः स्वीयमेवानि भक्ष्यम् / तद्वन्मोक्षाध्वनीहार्पितशुचिहृदयो वर्तते सूरिवृत्ते, मार्गे दोषेऽप्रवृत्तो मुनिरुदितबृहत्कल्पसूत्रं श्रयन् हि // 132 // शुद्धिः पात्रानुकारा न च समविधिना वैव सर्वैश्च सर्वा, तद्वचारित्रपात्रे न सकलमुनिभिनैव चैकप्रकारा /