________________ 218 . . आगममहिमा प्राग्बद्धकर्मफलमेतदिति प्रमित्य, सुझो विपाकमनुसंस्मरतीह शास्त्रम् // 123 / / पापं पुण्यं च यत् स्याद् भविजननिचये निश्चयादाश्रवात्तद्रोधः शक्योऽस्ति विश्वे श्रयति यदि पदं संवरात्मैकरूपम् / नाशोऽपीष्टप्रदाता ननु तत इति तद्वर्णकं प्रश्नपूर्व, सद्व्याकृत्या मुनिपसमुदितं श्रीयतां कर्ममुक्त्यै . // 124 // दृब्धं श्रीदृष्टिवादं मुनिपसुकृतिभिर्विश्वगार्थप्रभासं, पञ्चाङ्गं द्वादशाङ्गं परिकृतिसहितं सूत्रपूर्वानुयोगैः / युक्तं पूर्वैश्चतुर्भिर्दशगणकयुतैश्चूलिकश्चित्ररूपैः, साधो ! स्तौतूप्रमुत्कः समश्रुतभणकं स्वागमं चित्प्रसत्त्यै // 125|| श्रद्धा तर्कानुसारी श्रयति विधिगतं यत् सधर्मान्यधर्म, ज्ञातं षट्कायहिंसादुरितविरंतियुक् तत्प्रसिद्धयै झुपाङ्गम् / तीर्थ्याऽर्हन् मार्गयुक्तान् विविधगतिगतान् दर्शयच्याप्रिमं तद् , वन्दे श्री औपपातं जिननमनमहैः ( सश्चितं नूनमेषः) // 126 / / कुतीर्थिकः पुरा भवञ्जिनान्तराध्वसंश्रितः , . स नाकिधाममोक्षसौख्यसंयुतो भवन् यदा / दश्यते तदा मुनेः परा रतिः श्रीआर्हते, राजपृच्छया युतं ह्युपाङ्गराजप्रश्नकं (द्वितीयमाश्रये सदागमं श्रुतौ रतः सदा) // 127|| जीवाऽजीवप्रमुख्यान् यदि च दशविधान् सत्पदार्थाब् शृणोति / साफल्यं तस्य यः स्यादनुमननपटुरित्युपाङ्गं तृतीयम् /