________________ 216 आगममहिमा चारित्रं विधियुक् तदा शिवपदायालं भवेन्नान्यथाऽसौ शय्याहृतिवाससां यदि परामन्वेषयेदेषणाम् / तां चैका वियुता दिशेद् वरतरा या पिण्डनियुक्तिवाक् , तत्तामागमसत्यतत्त्वविदुषो घोषन्ति मूलात्मिकीम् // 112 // मान्याः सदैव विधयो विदुषां विदुक्ता श्वेतोहरा यदि परं शुचितर्कविद्धाः / ज्ञातादिभिर्यदि भवन्त्यनुरूपरङ्गाः स्युरुत्तराध्ययनमागममाश्रये तत् // 113 / / हिंसानृतादीन्यशुभाघधामेत्युशन्ति सर्वेऽपि परे हि तीर्थिकाः / षट्कायबन्धादिविदस्तु विज्ञा आचारमङ्गं मनसा श्रयन्ति // 114 / / जातायां भूरि सम्पदीतरजनस्तैन्यादिजं साध्वसं, तद्वत्तीर्थिकसम्भवं श्रुतिमतश्चारित्रिणस्तद् ध्रुवम् / अङ्गं सूत्रकृतं ततं गणधरैराचारसूत्रात् परं, (तत्तर्काङ्कितसंयमा.) तर्काकं व्रतवादमागममिमं विज्ञाः श्रयन्तु श्रियै लब्ध्वा वित्तं गतचरटभयं श्रेष्ठिना गण्यतेऽटे, सौवर्णं तत्र मुख्यं गणयति तदिवार्थान् दशान्तान् सुदृग्वान् / सङ्ख्यां कतुं मनसि विधृतवाँस्तत्तृतीयं सदङ्ग, स्थानाख्यं ह्यागमज्ञैः प्रतिदिनमनघं श्रियते सर्वशुद्धथा // 116 / / चिक्कणे चिक्खले (कर्दमे) काकिणीं वीक्ष्य विज्ञः, . सदोद्धर्तुमीहेत तदानुबन्धम् / जिहीते न चार्थस्तदीयं प्रतीत्य, . // 115 //