________________ . आगमोद्धारककृतिसन्दोहे सदागमा बीजमनूनमव्यये, यतः सजीवेतरबोधतोऽव्ययम् / फलन्ति यूयं निखिलाङ्गिवर्गे, यावद्भवद्भिर्न समोऽत्र विश्वे // 7 // ज्ञानेन क्रियया च सङ्गतमिदं जैनं मतं सद्यशः, सूते यत् परदर्शनानि न तथा साकल्यभाक्त्वाहते। तत्रापि क्षमते मतं विरहितं जैनं क्रियाभिः परं, नो जैनांगम ! शून्यतां तव परं नैवाऽप्यसौ मुच्यते // 71 / / सदृष्टौ विदि वर्त्तने शुचिमना उद्यच्छते स्वात्मना, चेच्छक्तस्त्रिकसंश्रयाय न भवेज्जैनागमाः शाश्वतम् / स्थानं शुद्धमुपैत्यसौ वरमतियः संश्रयेच्छुद्धितो, रूपं यद् भवतामनूनमहितं शेषद्वयेप्सुः सकः // 72 // लाभो लोभफलः खलु प्रभुमते जेगीयते नरैस्तन्मिथ्येक्ष्यत्त आर्हतागमसुधालाभे परा यन्मतिः / .. प्रज्ञाप्यानखिलान् विबुध्य. परतो लुभ्येन्न कोऽपि श्रुते, वादो व्याप्नुत आर्हतः खलु भुवि स्याद्वादमुद्राङ्कितः // 73 // मनुत मनुत भावानागमज्ञानदिष्टान् , .. नहि परगतभावः स्पार्शनादिविबोध्यः / इह परजनबोधे हेतुरस्त्यागमस्य, न भवति खलु कार्य कारणोद्भावशून्यम् // 74 / / चक्षुर्वदेव जिनपागमवेदनं यत् , स्वान्यप्रकाशकतया निजरूपमीः / चित्रो विधिस्तत ईहागमदान उक्त, - उद्देशनादिरपरे न विदां चतुष्के // 7 //