________________ 208 आगममहिमा धरणं धरणं वृणु वृणु धरणं निजगुणसन्ततिसारमतेः, स्मरणं स्मरणं कुरु कुरु स्मरणं सरणं) संवरनिर्जरमोक्षगुणे / / 61 / / शुक्लं पक्षं निश्रितममलं, रक्षसि भवधारिणमसुमन्तम् / कृतहा परमसुको यदिह त्वा-मागम ! याति निरस्य निवृत्तिम् / / 62 // शस्तः सार्वमुखैः संसारी यः स्यादागम ! तेऽध्वनि पान्थः / प्राप्तौ वीर्यमनाहतमन्ते भूत्वाऽतन्त्रः शिवमत्येति // 3 // स एव सम्यक्त्वधरोंऽशतो वा, पापान्निवृत्तो निखिलाच्च जीवः / सदागमा ! यो भवतामधीनः, परो भवामेध्यकृमित्वरूपः // 64 // देवं गुरुं धर्ममलं भवन्तं, सदागमाङ्गीशरणं समेतः / रहस्यमत्त्वेन समेति चेन्न, हहा ! भवाम्भोधितलं समेति // 65 // शरणमेति जनो व्यथयाकुलो, यदि परं परिपश्यति पालकम् / भविजनोऽपि तथैव तवागमं, ननु भवन्तमपीड उपेक्षते // 66 // अर्हन् सिद्धो गणपतिरुपाध्याय आत्तवतोऽसौ, सम्यग्दृष्टिः शुचिमतिनिपुणः सद्बती सुतपस्वीं / चेत्ते शुद्धागमरससुधयाऽऽन्यो भवेद् भावभूतिनोंचेत् संसारकूपे वलयमनुगतः संसरेन्नीच (निन्द्य) रूपः / / 67 / / जगति वित्तमशेषविदा मते, परिणमेत् परिणामधरः पुनः / ननु तवागमपूर्णविदात्मता समूलनाश उपैति कथं हहा ! . // 68 // पापं न जात्वेति यतं क्रियायां, गतिस्थितिस्वासनसन्निभायाम् / ध्रुवं समेतीतरथाऽवधेऽपि, परं विशुद्धागमसंस्कृते हृदि // 69 / /