________________ 198 जैनगीता। गच्छन्तः शिवमार्गमेत उचिताकाशप्रदेशान् विना, नान्याकाशगदेशसंश्रयमगुर्यद्वाऽस्पृशन्तीं गतिम् / . आश्रित्याऽगुरबाधशाश्वतसुखं सिद्धान् सदा तान्नम, (सिद्धेभ्य एभ्यो नमः,) आत्मा० / / 106 / / येषामूर्ध्वमलोकघातिततमाऽस्थाद् पूर्वयोगाद्गतिः, कर्मासञ्जनभेदतोऽघजनिता बन्धच्छिदो वाऽऽत्मनः / स्वाभाव्याच्छरमुख्यवस्तुनिवहे यद्वत् संदेभ्यो नमः, आ० // 107 // गर्भो जन्मजराऽऽधिरोगनिचया नैषां भवेयुः पुरो, निर्बाधं क्षतकालमानमपरावृत्तं शिवं शाश्वतम् / धामाप्येत जिनोदितात् स्वरमणाचारित्रतो मार्गगैरात्मारामपदं स्मरामि नितरां चारित्रमत्युज्ज्वलम् // 108 / / मालां चारित्रगुम्फां भविजनततये धारणायात्मशीर्ष, ग्रन्थित्वैनां ददामि प्रतिपदसुभगां लब्धुमग्यामवस्थाम् / तेनावाप्नोमि शश्वत्सुखमयपरमानन्दधामेति याञ्चा, देवानां सद्गुरूणां सुविहिबयतिनां सत्फलाऽस्तु प्रसादात् // 109 / / पूज्याराध्यपदानां नवकं जीवादीनां नवतत्त्व्याऽनु / पञ्चकमत्र महाव्रतनद्धं चैत्यादीनि च सन्ति तु सप्त // 110 / / देवः साधुर्धमों रत्नान्याप्तुं ज्ञानं दृक्चारित्रे / / इत्येषा गीता जैनीया षट्त्रिंशदध्यायसमेता // 11 //