________________ // श्री आगम-महिमा // आर्हन्त्यं शुभसाधनैरभिमतं कर्माऽपि बन्धे हितं, यच्च त्वं त्रितयं भवस्य भवनैर्गुण्यं विदन् शिष्टवान् / तन्नूनं महतां परार्थपरता सत्या परं सत्कला____ऽसावाप्यामलकेवलं यदि भणेच्छ्रेणिं सदाप्तागमीम् // 1 // प्राप्याऽशेषजगद्विलोकनपरं ज्ञानं निहत्याऽशुभा ऽदृष्टश्रेणिमपारसारबलयुक्झेण्या क्षपण्या प्रभुः / देवेन्द्रावलिसंहृतामतितरां पूजामधिष्ठाय च, कुर्वन्नागमसन्ततिं सफलताभाग् नान्यथा हि प्रभुः // 2 // पूजाप्रौढो जिनेशो न नमति निखिलाभीष्टसिद्धचा कृतार्थो, देवालिप्राभृतं सत् सुकृततरुफलं सेवयन् कश्चिदन्यम् / धन्यं तूद्दामधर्मा नमति मुनिगणं द्योतयन् स्वं कृतज्ञं, यन्मेऽदः सन्जिनत्वं मुनिगणपधृतादागमादेव जातम् // 3 // सुरविसरसंस्तृतं मुनिमधुपमालितं. सफलशरणदायिनं, नमत नम्रमौलयोऽधिकृतसत्फलोर्मयः सदागमालिदर्शिनम् / फलं जिनेन्द्रपादपे वरे गताधिसंतपे सदागमोपदेशनं, तदेव तीर्थमुद्दिशन् भवालिमोक्षमादिशन् सदा सुकृतसारको जिनेश एव नापरः // 4 // भज श्वस्त्रालिं भज शास्त्रालिं शास्त्रालिं भज शुद्धमते ! , जिनपतिगदितां गणपतिविततां मुनिजनमान्यतरां विमलाम् /