________________ जैनगीता। धर्मो यो जिनदेशितोऽव्ययपदं नेतुं जनान् यः क्षमो, यश्चामीकरवत् कषेण सहितश्छित्तापयुक्तः पुनः / जन्तूनां हितदेशको भवतु सोत्तंसोऽवनो मङ्गल- मात्मा० // 99 / / धन्योऽहं भववाधियानतुलितं लब्धं मया शासनं, जैनं स्यात्पदसंयुतां गिरमुशत् सर्वासुमत्तारकम् / निष्पक्षं समनीतिवादकलितं यत्रास्थया स्याच्छिव-मात्मा० // 100 / / धन्यास्ते मुनयः समेत्य जिनपस्येदं वरं शासनं, प्राणान्तोपनिपातनेऽपि न जहुः श्रेणेरुपद्राविणाम् / / मुक्ताः कर्मविनाशनात् प्रकटिताऽतुल्येन वीर्येण ये, आ० // 101 / / शीर्ष खादिरवहिदाहमसहत् श्रीनेमिशिष्यो गजो, बालोऽबालपराक्रमः श्वशुरतः प्रेतालये संस्थितः / निर्वाणं जिनराजसाधितमगात् क्रोधाग्निदावाम्बुद, आ० // 102 // धन्यास्ते मुनयो नमामि चरणाम्भोजेषु तेषां सदैकोना पञ्चशती सुयन्त्रपीडिता ये सिद्धिमापुः स्थिराः / सत्यं ये विविदुर्भिदामतिशयादात्माऽङ्गयोराऽऽशिव-मात्मा // 103 / / धन्यो येन समाहितात्मविधिना कृत्वा क्षयं घातिनां, लब्ध्वा केवलसंविदादिविभूतिं हत्वा समुद्घाततः / श्रणेश्चेतरदुष्कृतावलिमिता सिद्धिः शिवा शाश्वती, आ० // 104 / / अन्त्ये योगनिरोधमाप्य विजहुर्ये बन्धनं कर्मणः , श्रेण्या प्राग्रचितं स्वकर्म निचयं देहुः सितध्यानतः / मुक्त्वौदारिकमुख्यकायत्रितयी सङ्घातहीनां गताः , आ० // 105 / /