________________ जैलगीता। यः शक्तो न हि शुद्धमार्गगमनेऽन्यान् पातयालुस्ततः, प्रीतिं सन्नरगोचरां विलयति प्रोच्यानृतं यद्चम् / तत्पैशून्यमिदं सतामघपदं त्याज्यं सदात्मैषिणा, आत्मा० // 85 / / हर्ष शोकयुतं समैति कुमतिरर्थेषु जीवेतरेष्वज्ञानान्धतया स्वरूपरमणं विस्मृत्य भोगानुगः / कर्मानुक्षणमेष आत्मनियतं पश्येत्तदेतौ त्यजे- दात्मा० // 86 // धर्मार्थ न यतेत यो निजगुणभ्रंशात् परास्यैकदृक् , सोऽन्येषां वदतीह दूषणपदं सत्यं तथा वाऽन्यथा / तद्वज्यं परिवादनं परगतं सद्भिः सदा निन्दितं, आत्मा० // 87 // प्रायेणोच्यत आदरेण वितथं मुग्धान् परान् वञ्चितुं, तत्सत्याभमुदीरयन्ति मनुजा मायां प्रयुज्याग्रतः / विश्वस्ताङ्गिविनाशने पटुतरं मायामृषा तत्त्यजे- दात्मा० // 88 // श्रद्धत्ते ननु पापधामविततिं हेयाच्च सच्चेतसा, यः स्यादूर्जितमानसो जिनवचःपीयूषपाने रतः / मिथ्याशल्यविनाकृतस्तत इदं व्युत्सर्जनीयं बुधैः, आत्मा० // 89 / / पापस्थानविरक्तचित्तलतिको भूयाच्छिवाध्याश्रितो, हत्वा दुर्गतिकारणानि मतिमान् सद्धयानसिद्धिं श्रयेत् / रक्तोऽनादिभवेषु तत्र न हि तत्त्यागं विना श्रेयसी, आत्मा० // 9 // यत्राऽऽत्मा. नितरामुपैति मननं न ह्यस्ति मे किञ्चन, नेवान्यस्य जनस्य संयुतिकरोऽहं किन्तु भिन्नः स्वयम् / आत्मानं निजमेकमेव मनुते शश्वच्चिदानन्दिनं, आत्मा० // 91 / /