________________ 194 जैनगीता / वर्गस्य त्रितयस्य यः प्रतिपदं घातं विधत्ते मद, आचार्यादिगतं भनक्ति विनयं बालान् समुत्साहयन् / तं सर्व विनयामि सत्पथगतः शृङ्गाष्टकैः सङ्गतं, आत्मा० // 7 // माया नागीव नित्यं परदररमणा जीवितान्तं करोति, चारित्रं पालयन्तो मुनिवरवृषभा भ्रंशमायान्त्यमुष्याः / मल्ल्याद्यास्तत्त्यजेत् तां मुनिवृषभ इतो मार्गमायेशहब्धं, // 79 // लोभः सर्वगुणोज्झितः स्थितपदं यो याति सूक्ष्माञ्चितं, यावत्सद्गणधारणं मतिमतां दुश्छेदभूमि * गतः / तं सर्वं परिहृत्य संयमवतां मार्गेऽधुना संस्थितः, आत्मा० // 8 // रागः प्राणभृतां स्वरूपरमणप्राणापहारे पटुर्यद्दष्टो गणयेद् विपर्ययमतिर्बाह्य पदार्थ , निजम् / मायां लोभयुतां विशेच्च तनुमाँस्त्यागस्य धामैष तद्, आ० / / 8 / / इष्टं हन्तुमुपस्थितं स्वहृदये दृष्ट्वा समुद्भावयेत् , प्राणी द्वेषमनादृतः स्वरमणे वैरानुबन्धप्रदम् / / रूपं क्रोधमदात्मकं प्रकटयन्त्यन्तस्ततस्त्यज्यतां, आत्मा० // 82 // रागद्वेषवशाकुलाः प्रतिकलं मन्जन्ति बोधादिकं, हित्वा सोध्यमनर्थकारिकलहे सर्वस्वनाशे रताः / तन्नैकक्षणमस्य दातुमुचितः स्वस्मिन् प्रवेशो बुधैः, आत्मा० // 83 // रागाद्याक्तमनाः सदा प्रयतते श्रेष्ठे मते सद्गुणैः, . सत्यान्यैः परिपातितुं गुणपदाद् दोषैर्जनानां पुरः / अभ्याख्यानमुदीरयेत् कटुफलं तत्सर्वदाऽदस्त्यजेत्, आत्मा० // 84||