________________ जैनगीता। 193 पृथ्व्याद्या विविधा दशाभिहननादीनां पदानां वशं; नीता येऽत्र जनौ पुरा भवगतेनाज्ञाननिश्राभृता / त्रैधं त्रैधममुष्य पापसदनस्याऽस्तु व्ययो दुष्कृते, आत्मा० // 72 / / लोभादास्ययुताद्भयाच्च यदवग् मिथ्या क्रुधा संयुतस्तन्मे सर्वभवोदधिं परिगतो भूयाद्वथा दुष्कृतम् / द्रव्येणेदमलोकलोकविषयं कालाध्वभावेषु च, आत्मा० // 73 // ग्राह्यं धार्यमदत्तमात्तममतिं श्रित्वा. मया यद्भवेत् ,... तत्सर्वं विदधामि दुष्कृतपदं मिथ्या शुभेनात्मना / प्राणा यद् बहिरर्थजातमसुषु प्राणप्रदोऽर्थप्रदः, आत्मा० // 74 / / तैरश्चं सुरजं च मर्त्यजनुषो यत्सम्भवेन्मैथुनं,.. यत्तत्साधितमल्पितात्ममतिना कामान्धताधारिणा / तत्सर्वं परिहार्यतापदमद आत्मार्थतः प्रापये- दात्मा० // 75 // दुःखानां खनिरेष यो बहुविधः सङ्गो धनादिग्रहे, नातोऽन्यजगतीह जन्तुविषयं दृश्येत सदृग्भयम् . / तत्सर्वं परित्यज्यतापदमयेत् सङ्गो वृषाङ्कश्रितां, आत्मा० // 76 / / संसारस्य मतो महान् परिकरः क्रोधो यतस्तद्वशाजन्तुनैव हिताहितं विमनुते दग्धः क्रुदग्निं श्रितः / जीवे तापकरं त्यजामि तमहं श्रित्वा सदाराधनां, आत्मा० // 77|| 13