________________ जैनगीता। जीवानां भवतीह पूर्वभवगो द्वेषोऽपि रागोऽपि च, प्रत्यक्षं तु विना स्मृतिं गतभवद्वेषादिहेतूद्भवाम् / तद्वद्वैरपरम्परां विबुध्य मतिमान् सर्वेषु कुर्यात् क्षमा, आ० // 65|| नीतो देवेन युग्मी सुरभवनसमात् क्षेत्रतो वैरहेतोः, . श्वभ्राप्तेर्योग्यमायुस्तनुमुखलघुतां प्राप्य धामेति मत्वा / स्थाप्यं केनापि नेदं मनुत इह भवी क्षामणं तद्विधत्ते, आ० // 66 / / लब्धेऽपि प्रभुताधरे जिनपतेर्जन्मन्यशेषाङ्गिनां, मुक्त्यर्थं न तु वैरमाप चलनं दैत्यस्य गोपस्य च / पार्श्वस्यान्त्यजिनेश्वरस्य मतिमान् ज्ञात्वेति वैरं त्यजे-दात्मा० // 67|| पापानां परिहारमेव कुरुतां सर्वं जगन्मा च भूदःखानां भवनं पदं तु लभतां नित्यं महानन्ददम् / युज्यतेदृशचिन्तया न विदुषां वैरं ततस्तत्त्यजे- दात्मा० // 68 // सर्वाङ्गिष्वविशेषतः सुखमतिश्चेद्धारणीयाऽन्वहं, पीयूषोपमिता तदा कथममी वैरस्य पात्रं विदाम् / सश्चित्येति विषोपमामरिमतिं जह्यात् समेष्वङ्गिषु, आत्मा० / / 69 / / यत्रेक्षेत गुणांशमात्महितदं नम्रो भवेत्तत्र नातच्चेन्मोदपदं सुधी हितकरं द्वेषेण किं दह्यते / मत्वेतीह सदा भवेद्गुणपदे वैरस्य नाशे यतः, आत्मा० // 70 / / जीवाः सर्वभिदान्विता निजनिजाऽदृष्टेरिताः संमृतौ, चित्रां योगसमुद्भवां विरचयन्त्यात्माश्रितां चेष्टिताम् / केषाश्चिद्भवितव्यता न सुभगा किं तत्र वैरेण भोः, आत्मा० // 71 / /