________________ जैनगीता / 191 देवा दीर्घभवा भवन्ति चरणाद्देशव्रतानां भवात् , तत्प्राचुर्यमयस्य तस्य निपुणं बह्वी च संसारिता / जन्तो व्यनुगः प्रयत्ननिकरः साम्यं तु प्राण्यर्जितं, // 5 // संसारे तृणसाधिते मुनिवरः कल्याणकोटी श्रयेद्, यां तां नैव सुरेन्द्रसार्थनिचयो गच्छेन्निषण्णोऽनघे / ज्योतिनैव तथा रवेरिव परे ज्योतिर्धराणां व्रजे, आत्मा० // 59 // राधावेधसमं मुनेर्भव इह स्यादन्तिमाराधनं, प्राचुर्य यतिनां तु वेदवसवः शुश्रूषकाः साधवः / न स्यात्तत् त्रयमन्तरा मतिमतां योग्यं सदेहागमाद्, आ० // 60 / / आयुष्कस्य विभाव्य नाशमखिलं कुर्यात् समाराधनं, सूरीन्द्रान् प्रणिपत्य सर्वनियमानादत्त उद्धारकान् / साक्षीकृत्य जिनादीकान् पुनरपि प्रोत्साहयेत् सव्रते, आ० // 61 // गच्छस्थान् सकलान् क्षमेत सशिशून् आवृद्धसाधूस्त्रिधा, जातं यजनुषाऽऽगमवचोऽनादृत्य चीणं, तकत् / आचार्यान्वितवाचकान् समवृषान् शिष्यादिकान् सन्मना, // 62 / / जैनेऽवाखिलसङ्घगच्छकुलगानाऽऽबालवृद्धान् मुनी- . . ना जन्मावधि यत्कृतं तनुवचश्चित्तैरनिष्टं वृषे / क्षाम्येद्यन्न भवान्तरे वृषमनो न स्यात् पुनदुर्लभं, आत्मा० // 63 / / जीवा ये भवजालमत्स्यसदृशाः सद्धर्मलाभोज्झितास्तान् क्षाम्येत् स्पृहयेच यन्न दुरितं बध्नीयुराश्रित्य माम् / आयत्यां न भवे भवेत् परिगता वैरस्य बुद्धिर्यथा (तः), आ० // 64 / /