________________ 190 जैनगीता / नष्ठो नैव समुन्मिलत्यपि परो बाह्योऽर्थ आत्मार्जितो, नष्टोप्येति पुनस्त्वपार्धभवतोऽवश्यं दृगादिर्गुणः / . काष्ठां चैष हि याति शुद्धिपरमां तत्तत्र कार्या स्थितिः , आ० // 51 // ज्ञानादित्रितयं मतं नियमतो यद्भावलिङ्ग मुनेद्रव्येणापि रजोहरं मुखपटीपात्रं सचोलांशुकम् / लिङ्गं स्वान्यदुरापधर्मजननं धार्य सदाऽवोदितं, आत्मा० / / 52 / / चारित्रस्य भवन्ति जन्मनि परीलक्षाः समाकृष्ठयो, वेषेणास्थ चरित्रचारुमतिता तावत्प्रमाणा भवेत् / वेषेण वन्द्यतामनुगतश्चक्रीह शक्रादिभिः, . आत्मा० // 53 // उत्सर्गेण हि कोऽपि न प्रतिकृतिं कुर्याद्गदानां मुनिश्वेन्नो तिष्ठति धर्मशुक्लमननं कुर्याद् द्वितीये पदे / शोधिर्दोषततेः पुनर्न गृहिता ध्यानं शुभं चोद्भवेत्, आत्मा० // 54 / / अश्वे हस्तिनि गोबजे जनगणो भूषार्थमाभूषणा- .. न्यारोहेन च तत्र ममता काचित् पशूनां भवेत् / तद्वत्संयमसाधनाय यतिनां मुक्तोपधौ मुक्तता, आत्मा० // 55 / / यावल्लाभमधारयन्नपवरः स्तेनं महालोप्त्रिणं, सन्मानेन ददन्तमर्थमतुलं छेदेऽस्य शूलीकृतः / तद्वज्ज्ञानगुणादिलाभमनुयन् धर्ता परस्योत्तमः, आत्मा० // 56 / / चारित्रं न परत्र गच्छति समं जीवेन बोधादिवद्वमादेरिव बालकाल उदियात्संस्कार एतद्भवः / अत्रैतद्रतचेतसां न च पुनः प्राक् तद्ब्रजेत्पाल्यतां, आत्मा० // 54 //